SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ प्रमाणनयतत्वालोकालङ्कारः [ परि. ५ सू. ८ सिद्धः । प्रमाणसिद्धस्य सर्वान्प्रत्यविशेषात् । तथा च तदेव कालात्ययापदिष्टत्वं हेतोः । अथाप्रमाणतस्तर्हि प्रमाणं विना प्रमेयस्यासिद्धिरित्येव च वाच्यम् । किमनुमानोपन्यासेन । अप्रमाणसिद्धच परस्यापि न सिद्ध इति पुनरप्याश्रयासिद्धत्वम् । नापि प्रसंगसाधन५ मेतत् । यतो व्याप्याभ्युपगमो व्यापकाभ्युपगमनान्तरीयको यत्र प्रदर्श्यते स प्रसंग | व्याप्याभ्युपगमश्च परस्य प्रमाणपूर्वकत्वेन त्वयावधारितोऽन्यथा वा । आद्यपक्षे न प्रसंगस्योत्थानम् । तेनैव प्रमाणेन तद्व्याप्तेः पराकरणात् । द्वितीयपक्षे तु प्रमाणमेव परः प्रष्टव्यः । किंप्रमाणकोऽयं तवाभ्युपगम इति । न च परस्यैकान्तैक१० रूपत्वस्यानेक वृत्त्यभावादेश्व व्याप्यव्यापकभावः प्रासिध्यत् । अनेकवृत्त्यादिसद्भावेऽपि सामान्यादावेकत्वस्य प्रमाणसिद्धत्वादिति । तदेतदखिलमनलप्लुष्टपलालपूलपर्यन्तमनुकरोति । यतः प्रथमपक्षस्तावदनभ्युपगमादेव निरस्तः । प्रसंगसाधनकरूपे तु यौ विकल्पविकल्पविषातां तौ यदा शब्दानित्यत्वादितूष्णीकामाकलय्य स्थातुमर्हसि १५ त्वम् । तत्प्रतिषेधानुमानस्य सकलस्य तेन तिरस्करणात् । अथाप्रमाणसिद्धस्तर्हि पर एवं प्रमाणं प्रष्टव्यो न चैवम् । तत्र तत्र तत्प्रतिषेधानुमानोपन्यासात् । अथाप्रमाणसिद्ध एव पराभ्युपगमः परं .... ....राभ्युपगमप्रतिषेधं परित्यज्यान्यत्र प्रसंगः प्रत्यपादि । तथा हि- यद्येकान्तैकरूपत्वमूरीक्रियतेऽ२० वयविनस्तदा तद्व्यापकमनेकवृत्त्यभावादिकमपि भवेदिति संभावनागर्भाभ्युपगमद्वारेण प्रसंगमभिधाय तस्य न ...... प्रतिपाद्यते । एकान्तैकरूपत्वविरुद्धं ह्यनेकरूपत्वं तेन व्याप्तस्यानेकवृत्त्यादेरत्रोपलम्भः । विपर्ययहेतुरेव च मौलो हेतुः । न चायं नोभयोरपि सिद्धोऽनेकवृत्यादेस्तत्रोभयसंमतत्वात् । नाप्याश्रयासिद्धोऽ " माणस्यात्रानो - .... 433. 4944 4546 २५ वयव पस्थानात् । यत्खलु यन्मात्रनिमित्तं तत्तस्मिन्सति भवत्येव यथा 1804 .... " Aho Shrut Gyanam" 1630 .... ....
SR No.009665
Book TitleSyadvada Ratnakar Part 4
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages284
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy