________________
परि. ५ स. ८ }
स्याद्वादरत्नाकरसहितः
प्रसज्येताश्रयविनाशस्यावयविभागम्य च विनाशहेतोरभावात् । त्रयाणामप्यारम्भकत्वमयुक्तम् । महाकार्यद्रव्यस्योत्पती स्वपरिमाणापेक्षयाऽ. ल्पपरिमाणस्य कार्यव्यस्यैव सामर्थ्यदर्शनात् । अणुकं कार्यद्रव्येणैव
.... .... तत एव व्यणुकादेरपि तदस्तु । अपरिमितपरमाणुमयो हि स्कन्धः ५ कश्चिदस्मदादीनां लोचनगोचरे संचरति नान्यः । ननु जलमार्गानुगामिभास्करकिरणदण्डोदरसंचारिसूक्ष्मरजःकणः त्रसरेणुः, अस्मदादिप्रत्यक्षत्वाद्धटवत् । तन्नोत्पत्तिमत्त्वं परसंमतमुपपद्यते । किं च , उत्पत्तिमत्त्वं पर्यायान्तरेण कार्यत्वमेवोच्यते । तच्च यथा न युक्तिपरिपाटिपात्रं परेषां तथा स्थाणुपराकरणप्रक .... कं घटयति । त्रिविधं हि कारणम् । निर्वतकनिमित्तपरिणामिभेदात् । तदुक्तम्
‘निर्वर्तको निमित्तं परिणामी च विधेष्यते हेतुः। ..
कुम्भस्य कुम्भकारावर्तो मृचेति समसंख्यम् ॥' तदिह कुम्भस्य कथंचिन्मृदात्मकस्योत्पादात्पर्यायरूपतयोत्पत्तिः, १५ द्रव्यरूपतया त्वनुत्पत्ति: , कथंचिदुत्पत्तिमत्वाच्च कथंचिदेवानित्यत्वं सिध्यति । ननु न मृदात्मकत्वं कुम्भस्य संभावना .... प्रत्यक्षभेवाक्षूणं साक्षि लक्ष्यत एवात्र । तथा हि- लोचनव्यापारसमनन्तरमेव पण्यमित्येवमाकारावयवेभ्यो भेदेनावयविस्वरूपमामुखयन्ती प्रत्यक्षप्रतीतिर्गोपालहालिकादेरपि स .... .... .... २० व्यवच्छेद्यव्यवच्छेदकभावास्पदत्वात् । यावेवं तावेवम् । यथा राजपुरुषौ तथा चैतत्तस्मात्तथा । दृष्टो हि व्यवच्छेद्यव्यवच्छेदकभावोऽवयवावयविषु पटस्य तन्तवः । तन्तूनां पट इति । भिन्नकर्तृक
णप्रभवत्वाद्वा कटशकटवत् । भिन्नपरिमाणत्वाद्वा कुवलकुवलयवत् । २५
"Aho Shrut Gyanam"