SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ५ सू. ८ तदनुसारेण च परमागुष्यपि स्कन्धभेद एव कारणाकथिः । व्यवहारनयार्पणेन च स्कन्धभेदः कारणमभाणि । निश्चयनयार्पणेन. तु य एव स्कन्धविभागः स एव परमाणवः । अथ यथणयो जायन्ते तदा यत्कार्यद्रव्यं तत्स्वपरिमाणादल्पपरिमाणैः कारणैरारब्धं घटव५ दिति व्याप्तिसिद्धेर्विवादास्पदपरमाणूनामप्यल्पीयोभिः कारणैर्भवितव्यम् । तेषामप्यपरैस्तैरित्यनवस्थानात्परमाणूनामभाव एव भवेदिति चेत् । नैतद्वाच्यम् । व्यालेरसिद्धेः । श्लथावयवकसिपिण्डानां संघाताद्धनाक्यवकर्पासपिण्डेन सूक्ष्मेण संजायमानेन व्यभिचारात् । ननु यदीयं व्याप्तिरपसार्यते तदा परमाणूनामभाव एव भवेत्तत्सा१० धकप्रमाणस्याभावादिति चेत् । तदरमणीयम् । अगुपरिमाणतारतम्यं, क्वचिद्वा श्रान्तं, परिमाणतारतम्यत्वान्महापरिमाणतारतम्यवत् । यत्र चास्य विश्रान्तिस्ते परमाणव इतीत्थं तेषां प्रसिद्धेः । एवं च सदकारणवत्त्वादित्यस्य विशेष्यासिद्धता सिद्धैव । अपि च यद्यमी नित्या भवेयुस्तदा तत्प्रभवकार्याणां सकृदेवोत्पत्तिः स्यात् , अविकल१५ कारणत्वात् । येऽविकलकारणास्ते सकृदेवोत्पद्यन्ते । यथा समानस मयोत्पादा बहवोऽङ्गुराः । अविकलकारणाश्च जननैकस्वभावाणुकार्यत्वेनाभिमता भावा इति प्रसंगः । अविकलकारणानामप्येषामनुत्पादे सर्वदानुत्पत्तिप्रसक्तिर्विशेषाभावादिति विपर्यये बाधकं प्रमाणम् । ननु समवाय्यसमवायिनिमित्तभेदात्त्रिविधं कारणम् । यत्र कार्य सम२. वैति तत्समवायिकारणम् । यथा तन्तवः पटस्य । यतु समवायि कारणप्रत्यासन्नमवधूतसामर्थ्य च सत्कार्यं जनयति तदसमवायि-- -...--... ... ... .... ..... ... ................... .... ... ... ........--.--.............. - १५२ लोकव्यवहाराभ्युपगमपरो नयो व्यवहारनय उच्चो । स च कालवर्णस्यैव उत्कटत्वेन लोके व्यवन्दियमाणत्वाद्भगति प्रतिपादयति · कालको भ्रमर' इति 1 परमार्थतस्तु पारमार्थिकार्थवादी नैश्चयिको निश्चयनय उच्यते । स पुनर्भन्यते 'पञ्चवर्णो भ्रमरः' बादरस्कन्धत्वेन तच्छरीरस्य पञ्चवर्णपुद्गलैर्निष्पन्नत्वात्, शुक्कादीनां च न्यग्भूतत्वेनानुपलक्षणादिति ॥ विशे० ३५८९ । "Aho Shrut Gyanam"
SR No.009665
Book TitleSyadvada Ratnakar Part 4
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages284
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy