SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ प्रमाणनयत प्रमाणनयतत्त्वालोकालङ्कारः [परि. ५ स. ८ म्भकाणां बिम्बछायावयवानामपि तुच्छत्वादेव न बिम्बाधिकप्रतिबिम्बारम्भसंभव इति समः समाधिः । ननु शरीरादिच्छाया प्रत्यूषादी पूषाद्यालोकाभावमपेक्ष्य बिम्बात् द्विगुणत्रिगुणादिरप्युपजायते । ततः किं यदि हि तत्रैवं तदा प्रस्तुते किमायातम् । छायात्वात्प्रतिबिम्ब५ छायापि तद्वत्कचिडिम्बाद्विस्तीर्णास्त्वित्युपदर्शितमिति चेत् । प्रत्य क्षापहस्तितमेतत् । महत्यप्याश्रये बिम्बसमानस्यैव प्रतिबिम्बस्य दर्शनात् । किं चैवमालोकत्वादालोकवत्प्रदीपालोकोऽपि जगत् प्रकाशयतु । न चैवं विचित्रा हि वस्तूनां शक्तयः । ननु कथं कृपाणे कृष्णवर्णस्य दीर्घस्य च प्रतिबिम्बस्योपलम्भः । उच्यते । आश्र१०. यस्य श्यामत्वादायतत्वाञ्च तत्र तस्य तथोत्पतेः । दर्पणस्य त्वतिस्व. च्छत्वाद्विम्बाकारानुकारेणैव तत्र प्रतिबिम्बोत्पत्तिः । यदप्यकथि'कथं वा सव्यदक्षिणपार्श्वयोर्विपर्ययेण' इत्यादि तदपि प्रतिविम्बशब्दनिरुक्त्यैव कृतोत्तरम् । परं मिथ्याभिनिवेशान्न चेतयते भवान् । प्रत्यर्थिविन्ध प्रतिबिम्बमुच्यते । प्रत्यर्थिता चास्य सकलतदोबालकतिल. कभङ्गभ्रुकुट्यादिविशेषस्वीकरणेनाभिमुखतया पुरः स्थायित्वम् । तक सव्यदक्षिणपार्थविपर्यासव्यतिरेकेणान नोपपद्यत इति तथैवोत्पत्तिरुपपन्ना । अन्यथा तु प्रतिविम्बमिति व्यपदेश एवास्पानुपपन्नः स्यात् । किंच यन्मते प्रतिबिम्बमर्थान्तरं तस्य सव्यदक्षिणपार्श्वयोर्विपर्यासो गुण एव । यत एव बिम्बधर्मविपरीतधर्मयोगोऽत एवातोऽस्यान्यत्व२० मिति । यदप्युक्तं- 'कथं वा बिम्बे चलत्यवश्यं तदपि चलेत्' इत्यादि । तदप्यवद्यम् । अर्थान्तरस्यास्योत्पत्तावपि नियमेन परिणाम. कारणक्रियानुकारितया तस्मिंश्चलति चलनस्य तिष्ठति स्थानस्य च तत्रोपपत्तेः । यथा चलति तिष्ठति वा प्रदीपे तक्रियानुयायितया प्रकाशावयविन्यपि नियमेन चलनस्थाने । ननु प्रदीपानिःसृत्य प्रका२५ शाक्यवाः प्रकाशावयविनमारम्भन्त इति युक्ते तचलनाचलन योस्तत्र चलनाचलने । अत्र तु कथम् । उच्यते । यथा प्रकाशाक्य "Aho Shrut Gyanam"
SR No.009665
Book TitleSyadvada Ratnakar Part 4
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages284
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy