SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ अथ पञ्चमः परिच्छेदः । यः सामान्यविशेषमुख्यविशदानेकान्तकान्तान् जगौ जीवादीन्भुवनत्रयोदरगतानर्थानशेषानपि । यश्चैकान्तकलङ्कितां कणभुगाद्युक्तप्रमेयस्थितिं सन्यायेन निरास्थद्वेष कुरुतां श्रीसुव्रतः सम्मतम् ||५७०॥ इत्थमाविष्कृते प्रमाणस्य स्वरूपसंख्ये । संप्रति विपयमाविश्चिकीघुरिदमाह– तस्य विषयः सामान्यविशेषाद्यनेकान्तात्मकं वस्त्विति ।। १ ।। १० तस्य-- पुरा प्ररूपितस्वरूपसंख्यस्य प्रमाणस्य । विषीयन्ते निवध्यन्तेऽस्मिन्विषयिण इति विषयो गोचरः । परिच्छेद्यमिति यावत् । सामान्यं च विशेषश्च सामान्यविशेषौ वक्ष्यमाणलक्षणों । तावादिर्यस्य स सामान्यविशेषादिः । स चाऽसावनेकान्तश्च सामान्यविशेषाद्यनेकान्तः ! स आत्मा स्वभावो यस्य तत्सामान्यविशेषाद्यनेकान्तात्मकं वस्तु । बहिरन्तर्भावी भाव इत्यर्थः । अत्रादिशब्देन सदसन्नित्या - १५ नित्याभिठाप्यानभिलाप्याद्यनेकान्तानां परिग्रहः । एवं च केवलस्य सामान्यस्य विशेषस्य तदुभयस्य वा स्वतन्त्रस्य सदाधेकान्तस्य च प्रमाणविषयत्वं प्रतिक्षिप्तं भवतीति ॥ १ ॥ २० अधुना सामान्यविशेषस्वरूपाने कान्तात्मक वस्तुसमर्थनार्थं साक्षाद्धेतुद्वयमभिदधानः सदसदाद्यनेकान्तात्मक वस्तुप्रसाधकहेतूंश्च सूचयन्निदमाह- ४६ "Aho Shrut Gyanam"
SR No.009665
Book TitleSyadvada Ratnakar Part 4
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages284
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy