________________
परि. ५ सू. ८ स्याद्वादरत्नाकरसहितः
८४५ विशेषाणां भावाश्रितत्वेऽपि पदार्थत्वानपायात् । विशेषणीभूतत्वमपि समवायेन व्यभिचारि, तस्य समवायिविशेषणस्यापि पदार्थत्वात् । अथ भावनिरूपणाधीननिरूपणत्वं भावपारतन्त्र्यम् । तथा हि-नाप्रसिद्धभावसद्भावस्य नालिकेरद्वीपनिवासिनस्तदभावप्रतीतिरिति भावपरिज्ञानापेक्षितत्वादभावस्य न पदार्थत्वमिति । तदपि न पेशलम् । एवं ५ सत्यनित्यद्रव्यस्याप्यपदार्थत्वापत्तिः । न खल्बनित्यद्रव्यमवयवनिरूपणमन्तरेण निरूपयितुं पार्यते । भूयोऽव .... .... .... ....रेककालत्वात्कुतस्त्योऽसति द्रव्यत्वाभिसंबन्ध इति चेत् । अस्मादेव त्वदुक्तहेतोरेककालत्वात् । सत्तासंबन्धात्खलु सद्वस्तु । न चासौ द्रव्यत्वाभिसंबन्धात्प्रागस्य समभूत्तदानीमेव भवनात् । एवं १० च द्रन्यमितरेभ्यो भिद्यते द्रव्यत्वाभिसंबन्धत्वादित्यत्र हेतुः स्वरूपासिद्धः।
किं चाभिव्यज्यते जातिः संस्थानायेन केनचित् । गोत्वं लाशूलशृङ्गादिसंस्थानवशतो यथा ॥ ६१५ ॥ यथा वा तप्तयोस्तुल्यरूपयोधृततैलयोः । घृतत्वतैलते तादृग्गन्धेनोल्लसता भृशम् ॥ ६१६ ।। न चापि व्यञ्जकं किंचिद्रव्यत्वप्रतिपत्तये ।
कणभक्षमुनेदर्दीक्षामाश्रिता वक्तुमीश्वराः ॥ ६१७ ॥ क्रियावत्त्वगुणवत्त्वसमवायिकारणत्वमस्त्येव तव्यञ्जकमिति चेत् । प्रत्येक समुदितं यथासंभवं वा तत्तथा स्यात् । नाद्यः पक्षः । यतो २० नान्तरिक्षादौ क्रियावत्त्वं संभवति । नापि सद्यः समुत्पन्नेषु पटादिषु गुणवत्त्वमस्ति । लब्धात्मलाभो ह्यवयवी द्वितीयक्षणे गुणोत्पत्ती समवायिकारणं भवतीति भवद्भिरेवेष्टम् । तथा च योगिनां तत्र द्रव्यबुद्धिर्न स्यात् । नापि समवायिकारणत्वं सर्वदैव वस्तुषु विद्यते । यदैव कार्यमुत्पद्यते तदैवास्य भावात् । ततो न प्रत्येकमेतद्रव्यत्वस्य २५ व्यञ्जकम् । नापि समुदितम् । सद्यः समुत्पन्नेषु पटादिषु त्रितयस्याप्य
"Aho Shrut Gyanam"