SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ प्रमाणनयतत्त्वालोकालङ्कारः [ परि. ५ सू.. द्रव्यानय्यगुणवान् संयोगविभागेप्वकारणमनपेक्ष इत्यनेन वा लक्षणेन लक्षिता रूपादयश्चतुर्विंशतिर्गुणा नित्याश्वानित्याश्च । कर्मत्वाभिसंबन्धेनैकद्रव्यमगुणं संयोगविभागेप्चनपेक्षकारणमित्यनेन वा लक्षणेन लक्षितमुत्क्षेपणादि पञ्चावेधं कर्मानित्यमेव ।' अनुवृत्तप्रत्ययकारणत्व५ लक्षणं सामान्यं द्विविधं परमपरं च नित्यमेव' । 'नित्यद्रव्यवृत्तयोऽ त्या विशेषाः' । इति लक्षणोपेता विशेषा अनन्ता नित्या एव । 'अयुतसिद्धानामाधार्याधारभूतानामिहेति प्रत्ययहेतुर्थः संबन्धः स समवायः' इति । लक्षणस्तु समवाय एको नित्य एव । इत्थं प्रमाणतः सेयं षट्पदार्थी व्यवस्थिता । प्रमाणगोचरा सैव तस्मादस्तु विपश्चितः ॥ ६१२ ॥ एतां प्रमाणविमुखीमतिजर्जरां च । वैशेषिकास्त्यजथ किं न पदार्थकन्थान् । एषा हि नः स्फुरदनुत्तरजाडथजात पीडाविडम्बनपटुर्भवतां भवित्री ॥ ६१३ ।। आसेवध्वमहो तस्मात्तदाडम्बरखण्डनम् । सत्यमेकमनेकान्तं पावकं त्रिजगत्यपि ॥ ६१४ ॥ तथा हि-यत्तावदुक्तं ' द्रव्यगुणकर्मसामान्यविशेषसमवायाख्याः षडेव पदार्थाः ' इति तन्न तथ्यम् । तत्र षट्त्वनियमस्य विचार्य२० माणस्यानुपपत्तेः । यदि हि द्रव्यं गुणः कर्म सामान्य विशेषाश्च परस्परं समवायाच भिद्यमानानि प्रत्येकमेककान्येव समवायवदभ्युपगम्यरंस्तदा द्रव्यादयः षट् पदार्थाः सिध्येयुः । न चैवं तेषां नवादि. संख्योपेतत्वेन स्वीकारादिति कथं षट्पदार्थव्यवस्थितिः । अथ यद्यपि १ द्रव्याश्रय्यगुणवान् सयोगविभागेश्वकारणमनपेक्ष इति गुणलक्षणम् । क. सू. १1१1१६. २ एकद्रव्यमगुणं संयोगविभागेष्वनपेक्षकारणमिति कर्मलक्षणम् । क. स. १११।१७. 2 एतदर्थकं वाक्यं प्रशस्तपादभाष्ये पृ. ४.४ प्र. पा. भा. 'पृ. ४. ५प्र. पा. भा. पृ. ५ पं. १ "Aho Shrut Gyanam"
SR No.009665
Book TitleSyadvada Ratnakar Part 4
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages284
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy