________________
प्रमाणनयतत्त्वालोकालङ्कारः [परि. ५ सू. ८ शस्य चाननेभीवो भावे वा तादृशधूमजनकस्याग्निस्वभावतैवेति न व्यभिचारः । तदुक्तम्----
'अग्निस्वभावः शक्रस्य मूर्धा यद्यग्निरेव सः।
अथानग्निस्वभावोऽसौ धूमस्तत्र कथं भवेत् ॥' ५ इत्यादि । तदेतद्वक्त वेऽपि समानम् । तद्धि सर्वज्ञे वीतरागे वा
यदि स्यादसर्वज्ञाद्रागादिमतो वा कदाचिदपि न स्यादहेतोः सकृदप्यसंभवात् । भवति च तत्ततः । अतो न सर्वज्ञे तम्य तत्सदृशस्य वा संभव इति प्रतिबन्धसिद्धिः । किंच कार्यकारणभावः सकलदेशकालावस्थिताखिलाग्निधूमव्यक्तिकोडीकरणेनावगतोऽनुमाननिमित्तं नान्यथा । न च निर्विकल्पकस्य सविकल्पकस्य वा प्रत्यक्षस्येयति वस्तुनि व्यापारः प्रत्यक्षानुपलम्भयोर्वा । एतेन तृतीयोऽपि पश्चश्चिन्तितः। एवं च न संबन्धस्य स्वरूपमप्यस्ति । तथा च
परमाणवः परम्परमिह संश्लेषं श्रयन्ति न कथंचित् । तस्मात्तत्प्रचयात्मा स्थूलाकारोऽस्तु कथमर्थे ॥ ६०८ ॥ स्थूलाकारनिराकृतिविषयं ताथागतैरिदं गदितम् । शुणितमिव दारु विदलति जैनोदितयुक्तिभारेण ।। ६०९ ।।
तथा हि- यत्तावत् 'परमाणूनामन्योऽन्यं संबन्धाभावतः' इत्यादि तदसंबद्धम् । संबन्धस्यार्थानामबाधिताध्यक्षे प्रतिभासनात् । पटो हि तन्तुसंबद्ध एवावभासते। रूपादयश्च पटादिसंबद्धाः। संबन्धाभावे च तेषां विश्लिष्टताप्रतिभासः स्यात्तमन्तरेणान्यस्य संश्लिष्टता । प्रतिभासहेतोरभावात् । संबन्धानभ्युपगमेऽर्थक्रियाविरोधश्च परमाशूनामन्योन्यमसंबन्धतो जलधारणाद्यर्थक्रियाया अबटनात् । रज्जुवंशदण्डादीनामेकदेशाकर्षणे तदन्याकर्षणं चासंबन्धवादिनो दुर्लभं स्यात् । अस्ति चैतत्सर्वमत एतदन्यथानुपपत्तेश्च संबन्धप्रसिद्धिः । यदपि ' अधमर्थानां पारतन्त्र्यलक्षणो वा स्यात्, तादात्म्यापरपर्यायरूपश्लेषलक्षणो वा' इति विकल्प्य पारतन्त्र्याभावासंबन्धनिराकरणं कृतम् । तदप्ययुक्तम् । यतः पारतन्त्र्य
२०
"Aho Shrut Gyanam"