SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ५ सु. ८ 'पश्यन्नेकमदृष्टस्य दर्शने तददर्शने । अपश्यन्कार्यमन्वेति विनाप्याख्यातृभिर्जनः ॥ पश्यन्नेक कारणाभिमतमदृष्टस्योपलब्धिलक्षणप्राप्तस्यानुपलब्धस्य कार्याख्यस्य दर्शने सति । तस्यैकम्य कारणाभिमतस्यादर्शने च ५ सत्यपश्यन्कार्यमन्वेतीदमतो भवतीति निर्विकल्पकप्रत्यक्षतः प्रतिपद्यते जनोऽत इदं जातमित्याख्यातृभिविनापि । ततश्च--- 'दर्शनादर्शने मुक्त्वा कार्यबुद्धरसंभवात् । कार्यादिश्रुतिरप्यत्र लाघवार्थ निवेशिता ॥' दर्शनादर्शने मुक्त्वा विषयिणि विषयोपचाराद्भावाभावौ मुक्त्वा १० कार्यबुद्धेरसंभवात् । कार्यादिश्रुतिरप्यत्र भावाभावयोर्मा लोकः प्रतिपद. मियन्तीं शब्दमालामभिदध्यादिति व्यवहारलाघवार्थ निवेशितेति । अथापि स्याद्यदि दर्शनादर्शने एव कार्यबुद्धिम्तर्हि भावाभावी कार्य, न चैतदस्ति । भावाभावाभ्यां कार्यत्वसाधनात् । तस्मादन्यदेव कार्य त्वमित्यन्या कार्यत्वबुद्धिः । तदयुक्तम् । यतः-- ५ तद्भावभावात्तत्कार्यगतिर्याप्यनुवर्ण्यते । संकेतविषयाख्या सा सास्नादेोगतिर्यथा ।' तद्भावभावाल्लिङ्गात्तत्कार्थतागतिर्याप्यनुवर्ण्यतेऽस्येदं कार्यमम्गेदं कारणं चेति संकेतविषयाख्यानमेतदुपदर्श्यते । यथा गौरय सानादिमत्त्वादित्यनेन गोव्यवहारस्य विषयः प्रदर्यते । यतः 'भावे भाविनि तद्भावो भाव एव च भाविता । प्रसिद्ध हेतुफलते प्रत्यक्षानुपलम्भतः ।। प्रत्यक्षानुपलम्भतो हि कार्यकारणते प्रतीयते न तु तद्भावभावात् । तद्भावभाव एव तु ते । तथा हि-भावेऽम्यादौ भाविनि धूमस्य भावः प्रत्यक्षावगतः । भाव एव च तम्याग्न्यादेभांविता धूमस्य न तु पूर्वमेव २५ भाव इत्यनुपलम्भतोऽवगतन् । प्रागग्निसंनिधेरुपलाब्धलक्षणप्राप्तस्य "Aho Shrut Gyanam"
SR No.009665
Book TitleSyadvada Ratnakar Part 4
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages284
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy