SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ सू. १७ स्वनिश्चयवदन्येषां निश्चयोत्पादनस्यैव परार्थानुमानत्वादिति परार्थानुमानोपयोगिनोऽप्यस्य विचारस्यात्र प्रस्तूयमानस्य न कश्चिद्दोषः ॥१७॥ ___ अथ साध्यस्य व्यायानुमानिकप्रतिपत्त्यवसरापेक्षया भेदं दर्श यन्नाह-- ५ व्याप्तिग्रहणसमयापेक्षया साध्यं धर्म एवान्यथा तदनुपपवेरिति ॥ १८॥ व्याप्तिग्रहणसमयो यावान्कश्चिद्भूमः स सकलः पावकं न व्यभिधरतीति प्रतिपत्तिकालस्तदपेक्षया साध्यं धर्म एव बयादिर्न तु धरित्रीधरादिर्धर्मी । अत्र व्यतिरेकिणं हेतुमाह- अन्यथा धर्मस्यैव १० साध्यत्वमन्तरेण । तस्या व्याप्तेरनुपपत्तेः ॥ १८ ॥ __एतदेव भावयन्नाह--- न हि यत्र यत्र धूमस्तत्र चित्रभानोरिव धरित्री धरस्याऽप्यनुवृत्तिरस्तीति॥१९॥ उत्तानार्थमदः ॥ १९॥ १५ आनुमानिकपतिपत्त्यवसरापेक्षया तु पक्षापरपर्या यस्तद्विशिष्टः प्रसिद्धा धमीति ॥२०॥ अनुमानाजाता आनुमानिकी सा चासौ प्रत्तिपत्तिश्च तस्या अवसरः प्रतिनियते धर्मिणि साध्यसाधनसमयः । तदपेक्षया पुनः पक्षापरपर्यायस्तेन व्याप्तिकालापेक्षया साध्यत्वाभिमतेन धर्मेण विशि२० ष्टोऽवच्छिन्नस्तद्विशिष्टः । प्रसिद्धो वादिप्रतिवादिनोः प्रतीतो धर्मी पर्वतनितम्बादिः । साध्यमिति प्राकरणिकमिह सम्बध्यते ॥ २० ॥ प्रसिद्ध इत्युक्तमथ यतोऽस्य प्रसिद्धिस्तदभिदधाति-- कचिद्विकल्पतः कुत्रचित्प्रमाणतः कापि विकल्प प्रमाणाभ्यामिति ॥२१॥ "Aho Shrut Gyanam"
SR No.009664
Book TitleSyadvada Ratnakar Part 3
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy