SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ परि. ३ सू. १३ ] सात्मकत्वसिद्धिस्तत्रेति । तदपि नानवद्यम् । नेदं क्षणिकानां सचित्तशून्यं. जीवच्छरीरं प्राणादिमत्त्वादित्यादेरपि गमकत्वप्रसङ्गात् । निगदितप्रकारव्यतिरेकस्यात्रापि सम्भवात् । साध्याभावेऽप्यस्य सद्भावसम्भावनयाऽगमकत्वमिति चेत् । तीन्यथानुपपत्तिबलादेव गमकत्वमङ्गीकृतमिति कृतं केवलव्यतिरेकित्वेन । तन्न केवलव्यतिरेक्यप्यनु- ५ मानं परेषामुपपद्यते। एतेन पूर्ववच्छेषवत्सामान्यतो दृष्टमन्वयव्यतिरेक्यप्यनुमानं तेषां प्रतिक्षिप्तम् । साध्याभावसम्भवनियमनिश्चयमन्तरेणास्यापि गमकत्वानुपपत्तेरिति । यदप्येतस्य सूत्रस्य कैश्विद्याख्यानं " क्रियते । यथा कार्यात्पूर्वं कारणमुच्यते । पूर्व कारणं लिङ्गतयाऽस्यास्तीति पूर्ववत्कारणात्कार्यानुमानम् । यथा मेघोन्नत्या भविष्यदृष्टय- १० नुमानम् । शेषः कारणापेक्षया कार्यमुच्यते । शेषो विद्यते यत्र तच्छेषवत्कार्यात्कारणानुमानम् । यथा नदीपूरेणोपरितनदेशेऽतीतवृष्टयनुमानम् । सामान्यतो दृष्टं तु सामान्यतोऽविनाभावमात्रेण यदकार्यकारणभूताल्लिङ्गाद कार्यकारणभूतस्यैव लिनिनोऽनुमानम् । यथा कपित्यादौ रूपेण रसानुमानम् । रूपरसयोर्हि सम- १५ वायिकारणमेकं कपित्थादि द्रव्यं न तु तयोरन्योन्यकार्यकारणभाव इति । तत्रापि यदि निश्चितान्यथानुपपत्त्यनुवेधस्तदा न किञ्चिदनिष्टम् । साध्येनाविरुद्धानां व्याप्यकार्यकारणेत्यादिना सूत्रेण कारणादिलिङ्गानामभिधास्यमानत्वात् । निश्चितान्यथानुपपत्तिविरहे तु गमकत्वमेवामीषां नास्तीति किं परिगणनया । एतेन वैशेषिका अपि यत्प्राहुः- " अस्येदं कार्य कारणं सम्ब ___ध्येकार्थसमवायि विरोधि वेति लिङ्गकम्" अअत्येदं कार्यमित्यादिसूत्रानुसारिणां वैशेषिकाणां स्येदं कार्य यथा विशिष्टो नदीपूरो वृष्टेरिति । मतस्योपदर्थ अस्येदं कारणं यथा मेघोन्नतिवृष्टरेवेति । सम्ब धि द्विविध संयोगि समवायि च । तत्र संयोगि २५ १ प. ३ सू. ६५ । २ वै. द. अ. ९ आ. २ सू. १ खण्डन। "Aho Shrut Gyanam"
SR No.009664
Book TitleSyadvada Ratnakar Part 3
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy