SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ ५०० १५ प्रमाणनयतत्वालोकालङ्कारः एवं न प्रत्यभिज्ञानेऽध्यक्षत्वमुपपद्यते । भट्टचट्टाः परोक्षत्वं तदत्राभ्युपगम्यताम् ॥ ४६३ ॥ २० ततश्च - 17 सर्वं सङ्कलनाज्ञानं दर्शनस्मृतिहेतुकम् । तत्सिद्धं प्रत्यभिज्ञानमेकत्वादिप्रकाशकम् ॥ ४६५ ॥ ६ ॥ इदानीं क्रमप्राप्तस्य तर्कस्य कारणगोचरस्वरूपनिरूपणायाह---- उपलम्भाऽनुपलम्भसम्भवं त्रिकालीकलितसाध्य१० साधनसम्बन्धाद्यालम्बनमिदमस्मिन्सत्येव भवतीत्याकारं संवेदनमूहापरनामा तर्क इति ॥ ७ ॥ उपलम्भानुपलम्भाभ्यां संम्भव उत्पादो यस्य तत्तथा । सवेदनं तर्क इत्युत्तरेण योगः । उपलम्भानुपलम्भौ चेह साध्यसाधनयोः प्रमाणमात्रेण ग्रहणाग्रहणे अभिप्रेते । तेनातीन्द्रियसाधनेष्वागमानुमाननिबन्धनयोरपि ग्रहणाग्रहणयोरुपादानात्तत्सम्बन्धस्यापि तर्कस्य संग्रहान्नाव्याप्तिलक्षणदोषः । यथा तस्य प्राणिनो धर्मविशेषो विशिष्टसुखादिसद्भावान्यथानुपपत्तेरित्यादौ । आदित्यस्य गमनशक्ति - रस्ति गमनान्यथानुपपत्तेरित्यादौ वेति । न हि धर्मविशेषः प्रस्तुतानुमानात्पूर्वं ""शुभः पुण्यस्य " इत्यादिप्रवचनादन्यतः प्रतिपत्तुं पार्यते । नापि गमनशक्तिः प्रकृतानुमानात् । प्राग्यत्कार्यं तच्छक्तिमत्कारणपूर्वकं यथा सम्प्रतिपन्नं कार्यं च गमनमित्येवं रूपानुमानान्तरादन्यतोऽवगन्तुं शक्यते । तयोर्नित्यमतीन्द्रियत्वात् । अनयोश्चोपलम्भानुपलम्भयोः कचिदानन्तर्येण तर्क प्रति कारणत्वमवसेयम् । व्याप्तिग्रहणकाले हि कचित्क्षयोपशमविशेषवशात्सकृत्साध्यसाधनो १ तत्त्वार्थ. ६।३. [ परि. ३ स. ७ सुगतगोतमजैमिनिनन्दनैर्यदिह दूषणवृन्दमुदीरितम् | तदखिलं स्खलितं खललोकवत्सुजनचेष्टितचारुभिरुत्तरैः ॥ ४६४ ॥ " Aho Shrut Gyanam"
SR No.009664
Book TitleSyadvada Ratnakar Part 3
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy