SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ ॥ अथ तृतीयः परिच्छेदः॥ ये त्वां तीर्थपते स्मरन्ति मुदितस्वान्ताः क्षमामण्डनं __ ये त्वां विष्टपलोचनं प्रतिदिनं पर्यासते सर्वदा ॥ ये त्वां नाथ वितर्कयन्त्यवहिता ये वाऽनुमिन्वन्ति ते मुच्यन्ते दुरितैस्ततो वयमपि त्वां देव सेवामहे ॥ ४४५ ॥ निर्णीत प्रत्यक्षप्रमाणम्वरूपम् । अथ परोक्षप्रमाणस्वरूपनिरूपणायाह- ५ अस्पष्टं परोक्षमिति ॥१॥ म्वपरव्यवसायज्ञानं यदम्पष्टमुक्तलक्षणात्स्पष्टाद्विपरीतमविशदं तत्परोक्षमित्यवगन्तव्यम् । तथा च प्रयोगः, परोक्षमस्पष्टज्ञानात्मकं परोक्षस्वात्, यदस्पष्टज्ञानात्मकं न भवति न तत्परोक्षम्, यथा प्रत्यक्षम्, परोक्षं च वक्ष्यमाणं स्मृत्यादिविज्ञानम् । तस्मादस्पष्टज्ञानात्मकमिति ॥ १॥ १० अथास्य प्रकारान्प्रकटयन्नाहस्मरणप्रत्यभिज्ञानतर्कानुमानागमभेदतस्तत्पञ्च प्रकारमिति ॥२॥ स्मरणं च प्रत्यभिज्ञानं च तर्कश्चानुमानं चागमश्च त एव भेदास्तेभ्यस्तान्प्रतीत्येत्यर्थः । तत्परोक्षं पञ्चप्रकारमिति ॥ २॥ १५ सम्प्रति स्मरणं कारणगोचरस्वरूपतो निरूपयतितत्र संस्कारप्रबोधसम्भूतमनुभूतार्थविषयं तदित्या कारं वेदनं स्मरणमिति ॥३॥ १ 'कृतधियः सजानते' इति म. संगृहीतः पाठः । "Aho Shrut Gyanam"
SR No.009664
Book TitleSyadvada Ratnakar Part 3
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy