SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ पोरे. ३ सू. ९१] स्याद्वादरत्नाकरसहितः उपलब्धिहेतुरेवं विधिमुखतो विधिनिषेधबोधकरः ।। द्वात्रिंशतेह भेदैः संयुक्तो व्यक्तमुक्तोऽयम् ॥ ५२० ।। दोषप्रोषितपक्षनाभिसुभगं व्याप्योपलम्भादिक द्वात्रिंशत्प्रमितप्रभेदसतरप्रस्तारणापीवरम् ॥ सम्यग्व्याप्तिसुवृत्तिनेमिघटितं साध्यं निजं साधयन् जैनानामुपलब्धिचक्रमसमं जीयात्तदेतद्भुवि ॥ ५२१ ॥ तदेवं कस्यचिदर्थस्य विधौ प्रतिषेधे चोपलब्धिलक्षणहेतुभेदानभि. घाय सम्प्रति कस्यचिदर्थस्य निषेधे विधौ चानुपलब्धिप्रकारप्रपञ्चं निश्चेतुकामस्तयापकं मौलं प्रकारद्वयमाहअनुपलब्धेरपि द्वैरूप्यमविरुद्धानुपलब्धिविरुद्धानु- १० पलब्धिश्चेति ॥ ८९॥ अविरुद्धस्य प्रतिषेध्येनार्थेन सह विरोधमप्राप्तस्य वस्तुनोऽनुपलब्धिरविरुद्धानुपलब्धिः । विरुद्धस्य प्रतिषेयेन सह विरोधमागतस्यानुपलब्धिर्विरुद्धानुपलब्धिश्चेति ।। ८९॥ सम्प्रत्यविरुद्धानुपलब्धेविषयकथनपुरःसरं प्रकारमाहतत्राविरुद्धानुपलब्धिः प्रतिषेधावबोधे सप्तप्रकारेति ॥९ ॥ निगदसिद्धमदः ॥ ९ ॥ तानेव प्रकारानाहप्रतिषेध्येनाविरुद्धानां स्वभावव्यापककार्यकारण- २० पूर्वचरोत्तरचरसहचराणामनुपलब्धिरिति ॥ ९१ ॥ प्रतिषेध्येन वक्ष्यमाणेन कुम्भादिना सार्धमविरुद्धानां विरोधमनधिरूढानाम् । स्वभावश्च व्यापकं च कार्य च कारणं च पूर्वचरं "Aho Shrut Gyanam"
SR No.009664
Book TitleSyadvada Ratnakar Part 3
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy