SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ प्रमाणनयतत्त्वालोकालङ्कारः [परि. ३ सू..६७ त्पतिश्चान्योन्यमव्यवहितस्यैव धूमधूमध्वजादेः समधिगता न पुनर्व्यवहितकालस्य । अतिप्रसक्तेः । प्रयोगः-यद्यत्काले यस्मादनन्तरं वा यन्नास्ति न तस्य तेन तादात्म्यं तदुत्पत्तिर्वा । यथा : भविष्य च्छङ्खचक्रवर्तिकालेऽसतो रावणादेः । नास्ति च शकटोदयादिकालेऽ५ नन्तरं वा कृत्तिकोदयादिकम् । ननु प्रज्ञाकराभिप्रायेण भाविरोहिण्युदयकार्यतया कृत्तिकोदयस्य ... गमकत्वात्कथं कार्यहेतौ पूर्वचरस्य नान्तर्भाव इति प्रज्ञाकराभिप्रायेण पूर्वचर स्य कार्यहेतावन्तभावं चेत् । तर्हि कथमभूद्भरण्युदयः कृत्तिकोदयादिस्वीकुर्वतः खण्डनम् । त्यनुमानं स्यात् । न खलु भरण्युदयकायें कृत्तिकोदयः, तस्य भाविरोहिण्युदयकार्यतया भवद्भिः प्रतिज्ञातत्वात् । अथ भरण्युदयोऽपि कृत्तिकोदयस्य कारणं तेन भरण्युदयस्याप्यनुमानं कृत्तिको. दयाद्भविष्यतीत्युच्यते । ननु येन स्वभावेन भरण्युदयात्कृत्तिकोदयस्तेनैव यदि शकटोदयात्तदा भरण्युद्यादिवच्छ कटोदयादपि पश्चा दसौ स्यात् । यथा वा शकटोदयात्पूर्वकालं कृत्तिकोदयस्तथैव भरण्यु१५ दयादपि भवेत् । यदि चातीतानागतयोर्भरण्युदयशकटोदययोरेकत्र कृत्तिकोदयलक्षणे कार्ये व्यापारः , तास्वाद्यमानरसस्यातीतो रसो भावि च रूपं कारणं स्यात् । ततो भाविरूपस्यैवास्वाधमानाद्रसात्मतीतिः स्यान्न तु स्वसमयमाविनोऽतीतस्य वा रूपस्य इत्ययुक्तमुक्तं वार्तिके " इत्यतीतककालानां गतिर्नानागतानाम्" इति । अथ २० भरण्युदयरोहिण्युदययोरन्यतरस्थैव कार्य कृत्तिकोदयः । तीन्यतरस्यै वातः प्रतीतिर्भवेत् । ततो न पूर्वचरोत्तरचरौं कार्यहेतावन्तर्भवत इति ॥ ६७ ॥ .. ननु कालव्यवहितौ कार्यकारणभावौ नोपलभ्येते इत्यनुपपन्नम् । जाग्रत्प्रस्तुतस्वप्नोत्थितावस्थाभाविबोधयोर्मरणारिष्टयोर्वा कालव्यवधानेऽ२५ पि तदुपलब्धेरित्येतन्निराकर्तुमाह--- ..." १' कार्यहेतौ वर्तते ' इति प. भ. पुस्तकयोः पाठः। "Aho Shrut Gyanam"
SR No.009664
Book TitleSyadvada Ratnakar Part 3
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy