SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ३२६ १० प्रमाणनयतत्त्वालोकालङ्कारः परि. २ सू. ३ तथा परिणतः सर्वतः प्रसरति । अत एव पीतरक्तादिकाचपिकातो रश्मयोऽपि तच्छायाः प्रसरन्तो दृश्यन्ते । अथ यथा पारदस्यायस्पात्रभेदे सामर्थ्य न पुनरलाबुपात्रभेदे तथा लोचनरोचिषामपि स्फटिकादे भेंदे शक्तिर्भविप्यति न तूलपटलीभेद इति चेत् । तदप्रतीतिकम् । ५ सोऽयं स्फटिकादिरिति निर्णयाद्विनाशव्यवहारस्य तत्र कस्यचिद भावाच्च । अथ पूर्वपूर्वकाचादिव्यूहवृत्तावुत्तरोत्तरतद्रूपव्यूहान्तरस्योपपत्तेः प्रदीपज्वालावन्निरन्तरताम्रान्तिरित्युच्यते । हन्तैवम् । कलशकुलिशप्राकाराद्यं त्रिविष्टपकन्दरा कुहरकलितं विश्वं वस्तु प्रतिक्षणभङ्गुरम् ॥ ज्वलनकलिकावत्किन्त्वस्मिन्निरन्तरताभ्रमः प्रभवति वदन्नित्थं शाक्यः कथं प्रतिहन्यते ॥ ३१७ ।। अथात्मादिपदार्थानां क्षणिकत्वमाचक्षाणं भिक्षु प्रतिक्षेप्स्यति । प्रत्यभिज्ञैवेति चेत् । स्फटिकादावध्यस्त्येवासौ । सान्यत्र दृढेति चेत् । किंकृतं तत्रास्य दाढर्थन् । बाधाभावकृतमिति चेत् । प्रकृतेऽपि १५ तत्समानम् । न हि स्फटिकादौ प्रत्यभिज्ञानस्यैकत्वपरामर्शिनः किंचि बाधकमस्त्यात्मादिवत् । स्फाटिकान्तरितार्थोपलम्भेन तद्भेदसिद्धिरेकत्वग्राहकप्रत्यभिज्ञानस्य बाधिकेति चेत् । नैवम् । इतरेतराश्रयापत्तेः । भेदसिद्धौ हि स्फटिकादेस्तदन्तरितार्थोपलम्भः सिद्धयति तत्सिद्धौ च भेदसिद्धिरिति । यदि च तथा स्फाटिकादेराशूत्पादविनाशौ स्वीक्रियेते २० तदा चैवं दर्शनान्तरितमदर्शनमपि स्यात् । न च तत्र तदा कस्यचित् तदनुभूयते । तद्विनाशस्य पूर्वोत्तरोत्पादाभ्यामाशुभाविभ्यां तिरोहितत्वान्न तत्रादर्शनं स्यादिति चेत् । नन्वेवं तदुत्पादस्य पूर्वोत्तरविनाशाभ्यामाशुभाविभ्यामेव तिरोधानाद्दर्शनमपि माभूत् । तदुत्पादयोः स्वमध्य गतविनाशतिरोधाने सामर्थ्य भावम्वभावत्वेन बलीयस्त्वात् । नतु ६५ निस्वभावयोस्तन्नाशयोः स्वमध्यगतोत्पादतिरोधाने । अभावस्वभावत्वेन दुर्बलत्वादिति चेत् नैतद्भाव्यम् । भावाभावस्वभावयोः समानवलत्वात् । "Aho Shrut Gyanam"
SR No.009663
Book TitleSyadvada Ratnakar Part 2
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy