SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ परि. २ सू. १] स्याद्वादरलाकरसहितः ३०५ यमेव तत्कारणमित्युच्यते । ननु तदपि शक्तिमदेव तदुत्पादे व्याप्रियते सापि तत्र शक्तिः कुतः समुत्पन्नेति चेत् । येभ्य एव शक्तकारणेभ्यः पावकः कारणशक्तिरपि च तेभ्य एव समुत्पद्यते । म चैवमनवस्थापि दूषणाय । बीजाङ्कुरादिवत् । यत्पुनरुक्तं प्रतिकार्यमेका शक्तिरनेका वेत्यादि । तत्र कारणस्य प्रतिकार्यमनेकैव शक्तिः । तथा ५ हि कारणमनेकशक्तियुक्तं विचित्रकार्यत्वात् नानाकारणवत् । विचित्रकार्याणि वा कारणम्य शक्तिभेदनिमित्तकानि तत्त्वाद्विभिन्न कारणकार्यवत् । यथैव हि सहकारफलादौ रूपादिज्ञानानि रूपादिस्वभावभेदनिबन्धनानि । तथैकस्मादपि प्रदीपादेर्भावाद्वर्तिकादाहतैलशोषादिविचित्रकार्याणि तावच्छक्तिभेदनिमित्तकानि व्यवतिष्ठन्ते । १० अन्यथा रूपादेर्नानात्वं न स्यात् । चक्षुरादिसामग्रीभेदादेव हि तज्ज्ञानप्रतिभासभेदः स्यात् । सहकारफलादिद्रव्यं तु रूपादिस्वभावरहितमेकमनंशमेव भवेत् । चक्षुरादिबुद्धौ प्रतिभासमानत्वात् रूपादेः कथं सहकारफलादिद्रव्यस्य तद्रहितत्वमिति चेत्, तर्हि तैल. शोषादिविचित्रकार्यानुमानबुद्धौ शक्तिनानात्वस्य प्रदीपार्थानां । प्रतीतेः कथं तद्रहितत्वं स्यात् । प्रत्यक्षबुद्धौ प्रतिभासमाना रूपादय एव परमार्थसन्तो नत्वनुमानमतौ परिस्फुरन्त्यः शक्तय इत्यप्यसुन्दरम् । अदृष्टेश्वरादेरपरमार्थसत्त्वप्रसङ्गात् । प्रदीपादिद्रव्यस्यैकस्य वर्तिकादिसामग्रीभेदाहाहादिकार्यनानात्वं न पुनस्तच्छक्तिस्वभावभेदादित्यप्यविचारितरमणीयम् । रूपादेरप्यभावानुषङ्गात् । शक्यं हि .. वक्तुं सहकारफलादिद्रव्ये चक्षुरादिसामग्रीभेदादूपादिप्रतिभासभेदो न पुना रूपाद्यनेकस्वभावभेदादिति । तन्न प्रमाणप्रतिपन्नत्वाद्रूपादिवच्छक्तीनामपलापो युक्तः । १'तत्' इत्यधिकं प. पुस्तके ! "Aho Shrut Gyanam"
SR No.009663
Book TitleSyadvada Ratnakar Part 2
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy