________________
परि. २ सू. १]
स्याद्वादरत्नाकरसहितः
२९१
अहह नैयायिक त्वं स्वकदाशयसिद्धिमात्रलाम्पटयात् ॥ लोकव्यवहारममुं कथमवधारयसि निःशङ्कः ।। २९९ ॥
लोको हि प्रतिबद्धमपि दहनं दहनमेव व्यवहरति । अथ न दहनस्य दाहनिबन्धनो दहनव्यवहारस्तस्य दहनत्वसामान्यनिबन्धनत्वात् । इतरत्रापि किं न तथा । अथोत्तम्भके नास्त्युत्तम्भकत्व- ५ सामान्यमुत्तम्भनक्रियानिबन्धनत्वात्तद्यपदेशस्य पाचकादिवदिति चेत् । दहनेऽप्येवमस्तु । अथोत्तम्भके तत्सामान्याभ्युपगमे प्रौढापरप्रतिबन्धककालेऽपि तस्य तदवस्थत्वात्कार्योत्पत्तिप्रसङ्गः । वह्नावपि तुल्यमिदम् । किं च समाचक्ष्महे च हेतुरित्येव जनकः किं तु युतोऽप्रत्यक्षया शक्त्या ।
तत्प्रतिबन्धककाले च शक्तिरुत्तम्भकस्य सा ध्वस्ता ॥ तदनुत्तम्भितवडूस्ततः कथं भवतु कार्यजनिः ॥ ३०० ॥ येन तु नोपगताऽसौ तस्येशि सङ्कटे निपतितस्य ।। निस्सरणोपायः स्यात्पलायनं यदि परं नान्यः ॥ ३०१ ॥ नोत्तम्भकत्वमित्थं कुर्वाणस्यैव कार्यमेति घटाम् ॥ १५
अस्ति प्रतिपक्षत्वं प्रौदप्रतिबन्धकेऽस्य ततः ॥ ३०२॥ किं चोत्तम्भकापेक्षया प्रौढप्रतिबन्धके प्रतिपक्षत्वं कक्षीकरोषि तदपेक्षया पुनरुत्तम्भके न स्वीकरोपीति नाम्नैव नैयायिकोऽसि । उभयाधिष्ठानतयाऽस्योभयत्रोपगमार्हस्यैकत्रैवोपगमात् । अथ यमभिसन्धाय यस्य प्रयोगः स तस्य प्रतिपक्षः । न च प्रौढापरप्रतिबन्धकस्याभिसन्धा- २० नेनैतदुत्तम्भकप्रयोगः किन्तु प्रथमप्रतिबन्धकम्येति चेत्, परिभाषामात्रमेतत् । विरुद्धकार्यकारित्वेनैव प्रतिपक्षत्वव्यवस्थितेरुक्तत्वात् । यदा च विद्यमाने बलीयसि प्रतिबन्धके तमभिसन्धाय दुर्बल उत्तम्भकः केनापि सन्निधाप्यते तदा कः कुशलोपायस्ते । तदा हि तस्य
१ . नैव' इत्यधिक म. पुस्तके । २ केवलं युक्तिरहितं वचनमित्यर्थः ।
"Aho Shrut Gyanam"