________________
२६९
परि. २ सू. १] स्याद्वादरत्नाकरसहितः
गोपालोऽपि प्रबलविगलवाष्पबिन्दुप्रबन्धे । नेत्रे कर्तुमधुरमधुयुग्मञ्जरीम्लानिहेतोः ।।
धूमोत्पीडात्कचिदपि समालोक्यमानात्प्रदेशे । जानात्येव ज्वलनमखिलक्षिप्तशङ्कावकाशः ।। २८४ ॥
कथं चानुमानम्वरूपापलापे प्रत्यक्षमेव प्रमाणमगौणत्वादित्यनु- ५ मानमुद्रया परम्प्रतिपादयतस्तव स्ववचनविरोधो न स्यात् । तथा च ।
सद्भावमस्यति सदाऽनुमितेर्मतस्य
स्वीयस्य सिद्धिमनयैव च सन्तनोति ।। आभात्यलौकिकममुप्य मनीषिलोके
लोकायतस्य सकलं चरितं तदेतत् ॥ २८५ ॥ निरवद्यतल्लक्षणाभावादित्यप्ययुक्तम् । हेतुग्रहणसम्बन्धस्मरणकारणकं साध्यविज्ञानमित्यादेनिरवद्यतल्लक्षणस्याने वक्ष्यमाणत्वात् । यदप्यवस्थादेशकालभेदादित्याधभिहितम् । तदप्यभिधानमात्रम् । तर्काख्यप्रमाणमाहात्म्यतः सम्यगवगतायां व्याप्तौ लिङ्गस्य स्वसाध्ये व्यभिचाराभावात् । यत्र तु व्यभिचारस्तत्र प्रमातुरेवापराधो नानुमानस्य । १५ तदाहुः । “ प्रमातुरपराधोऽयं विशे यो न पश्यति । नानुमानस्य दोषोऽस्ति प्रमेयाव्यभिचारिणः॥१॥" यदप्युक्तं तत्र प्रभातुः शक्त्यभावः करणस्य सामर्थ्यविरहो धूमस्याभावो वानुपलम्भे कारणमिति । तदप्यसत् । प्रमातु: करणस्य च सामर्थ्यसद्भावनिश्चये यो धुमानुपलम्भस्तस्य धूमाभावेनैव प्रयुक्तत्वाद्धमाभावस्य चान्यभावप्रयुक्तत्वेन २० निर्णयात्साध्यसाधनसंबन्धसिद्धिः । यच्चान्यज्जल्पितं अनुमानस्य धी धर्मस्तत्समुदायो वा साध्यः स्यादित्यादि । तदपि न युक्तिमास्कन्दति । प्रयोगकालापेक्षया साध्यस्य भेदात् । व्याप्तौ हि साध्यं धर्मसामान्य प्रयोगकाले तु तद्विशिष्टो धर्मीति वक्ष्यति । ततः कथं सिद्धसाधनं
१ असूच क्षेपणे अस्यति क्षिपति । हैमधा. पा. ४.७८. २ तदा' इति म. पुस्तके पाठः । ३ . सिद्धेः' इति प. पुस्तके पाठः ।
"Aho Shrut Gyanam"