SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ प्रमाणनयतत्त्वालोकालङ्कारः परि. २ स. २६ स्यादृश्यत्वे हेतुरित्यायलौकिकम् । एकस्य जातिविशेषासम्भवात् । अनेकव्यक्तिनिविष्टत्वात्तस्य । पिशाचादौ हि सन्त्यनेकव्यक्तय इति युक्ता तत्र जातिविशेषाददृश्यतेति । दृश्यशरीरस्य कर्तुम्तृणादावदर्शनासिद्धं कालात्ययापदिष्टत्वम् ! यच्चोक्तं प्रकरणसमत्वोद्भावननिभित्तोपन्यस्तानुमाने येन केनापि प्रमाणेन त्रिलोचन इत्यादि । तदपि नोपपन्नम् । अत्र धर्मिणो विकल्पसिद्धत्वात् । यथा च विकल्पसिद्धोऽपि धर्मी भवति तथा पुरस्तात्प्रकटयिप्यते । यद्वास्तु प्रमाणसिद्ध एवायं धर्मी । न च कालात्ययापदिष्टत्वनिष्टऋः शक्यः कर्तुम् । यदि हि क्षितिधरादिनिर्माणनैपुण्यादिद्वारेण केनचिदस्य सिद्धिरभिधीयते । तदा १० स्यात्प्रकृतदूषणस्पर्शः । यावता भगवदागमप्रसादात्तत्सिद्धि रुच्यते । न चास्मादसौ तत्कव सिध्यतीति वाच्यम् । अणिमाद्यष्टविधैश्वर्यशालिनो नितान्तबलीयसः खेचरविशेषस्यैव तस्य तत्राभिधानात् । क्षित्यादिकर्तृत्वस्य सर्वथा तत्राश्रवणात् । अथैवं सिद्धिसाध्यतावतारः । विद्याधरविशेषस्य क्षित्यायकर्तृत्वेनास्माभिरपि १, स्वीकृतत्वात् । अस्मदभिप्रेतम्य तु तम्य न प्रतिरोधः । मैवम् । य एव हि भवतः सर्वज्ञत्वाद्यतिशयशाली शूली सम्मतः स एवास्माकं विद्याधरविशेष इति न पुनरतोऽन्यः । ततो विशेषविप्रतिपत्तावपि सामान्येन शम्भुर्धर्मी युक्त एव । अन्यत्रापि सर्वत्र धर्मी सामान्येनैव निगद्यते । अन्यथानुमानमात्रमुद्रामङ्गप्रसङ्गः । शक्यं हि वक्तुं २० शब्दानित्यतानुमानेऽपि । किमयं शब्दो द्रव्यं गुणो व्यापी तदितरः श्रयमाणोऽन्यो वा धर्मितयोपात्त इति । अतः सामान्येन धर्मिणोऽभिधानान्न कालात्ययापदिष्टता । अथ यः कर्ता स शरीरीत्येवं शरीरकर्तृत्वयोप्प्यव्यापकभावसिद्धौ सत्यामीश्चरे शरीरं निवर्तमानं कर्तृत्व मपि निवर्तयेत् । न चैवम् । शरीरस्य कर्तृत्वं प्रति व्यापकत्वासिद्धेः । २५ कर्तुर्बुद्धयनित्यत्वोपाधिकत्वाच्छरीरसम्बन्धस्य । अनित्यबुद्धिसमन्वित १ सर्वकर्तृत्वेत्यधिकं प. म. पुस्तकयोः । "Aho Shrut Gyanam"
SR No.009663
Book TitleSyadvada Ratnakar Part 2
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy