________________
प्रमाणनयतत्त्वालोकालङ्कारः
मनेकश्च तदाकारो नीलादिप्रतिभासविशेष इत्येकत्वानेकत्वविरुद्धधर्माधिकरणत्वमेदेऽपि स्यादिति मतम् । तदा तत्किमनेकया शक्त्या - नेकमर्थं युगपद्गृह्णाति किं चैकया । यद्यनेकया, तदेकमनेकशक्त्यात्मकमिति स एव विरुद्धधर्माध्यासः । अनेकशक्तेरनेकत्वधर्माधारभू५ ताया ज्ञानात्पृथक्त्वे ज्ञानस्य त्वेकधर्माधारत्वान्नैकत्र विरुद्धधर्म्माध्यास इति चेत् । तर्हि कथमनेका शक्तिस्तस्येति व्यपदिश्यते, ततो भेदादर्थान्तरवत् । सम्बन्धादिति चेत्, तर्हि तदनेकया शक्त्या सम्बध्यमानमनकेन रूपेण कथमनेकरूपं न स्यात् । तस्याप्यनेकरूपस्य ततोऽन्यत्वादेकमेवेति चेत् । कथं तर्हि तत्तस्येति व्यपदेष्टव्यम् । १० सम्बन्धादिति चेत्, तर्हि स एव दोषः । अनिवृत्तश्च पर्यनुयोगोऽनवस्थानात् । यदि पुनरेकेनैव रूपेणानेकया शक्त्या सम्बध्यते । तदा येनैव पीतग्रहणशक्त्या सम्बध्यते तेनैव नीलादिग्रहणशक्त्या चेत्पीतग्राहित्यविशेषणमेव मेचकज्ञानं स्यान्न नीलादिग्राहित्वविशेषणमिति पीतज्ञानमेव तन्न तु मेचकज्ञानम् । अथैकया १५ शक्त्यानेकमर्थं गृह्णातीति द्वितीयविकल्पः समाश्रयिते । तदापि सर्वार्थग्रहणप्रसङ्गः । तथा हि, पीतग्रहणशक्त्यैकया यथा नीलादिग्रहणं तथातीतानागतवर्त्तमानाशेषपदार्थग्रहणमपि केन वार्येत । अथ न पीतग्रहणशक्त्या नीलग्रहणशक्त्या वा पीतनीलाद्यनेकार्थग्राहि मेचकज्ञानमिष्यते किं तर्हि नीलपीतादिप्रतिनियतानेकार्थग्रहणशक्त्यैकयेति २० मतम् । तदा न कार्यभेदः कारणशक्तिभेदव्यवस्थाहेतुः स्यादित्येकहेतुकं विश्वस्य वैश्वरूप्यं प्रसज्येत । तथा चानेककारणप्रतिवर्णनं सर्वकार्योत्पत्तौ विरुध्यते । तदभ्युपगच्छता मेचकज्ञानमनेकार्थत्राहि नानाशक्त्यात्मकमुररीकर्तव्यम् । तेन च विरुद्धधर्म्माधिकरणेनैकेन प्रकृतहेतोरनैकान्तिकत्वान्न ज्ञानानामात्मनो भेदैकान्तसिद्धिर्येनात्मा २५ तज्ज्ञानादिरूपो न भवेत् । निराकरिष्यमाणत्वाच्च पुरस्ताद्गुणगुणिनोरन्य
१' ज्ञानादीनाम् ' इति प. भ. पुस्तकयोः पाठः ।
200
"Aho Shrut Gyanam"
[ परि. २ सु.
२६