________________
प्रमाणनयतत्त्वालोकालङ्कारः
[परि. २ सू. २३
भ्याससिद्धिरिति । अथ स्यादेवं यद्येक एव कश्चिदतीन्द्रियदर्शी स्वीकृतः स्यात् । यावता रात्रिन्दियपरम्परावदनादिरयमतीन्द्रियदर्शिनां सन्तानः। ततश्च पूर्वपूर्वातीन्द्रियदर्शिप्रतिपादितागमोद्भूतधर्मादिज्ञानमभ्यस्यन्पाश्चात्य; पुमानतीन्द्रियदर्शी सम्पद्यते । ततो नोक्तदोषानुषङ्गः । अनुमानेनापि वेद्यन्त एव धर्मादयोऽतीन्द्रियेन्द्रियवत् । अथार्थोपलम्भान्यथानुपपत्तिरूपार्थापत्तेरिन्द्रियादिगतिर्नानुमानादिति चेत् । न । अर्थापत्तेरनुमानादनन्तरत्वेन प्रतिपादनात् । अस्तु वासौ ततो भिन्ना । तथापि तया ज्ञास्यन्त एव धर्मा
दयः । न खल्वपत्तावनुमाने वा तात्पर्यमपि तु ज्ञानमात्र एवेति । १० तदप्यवल्गु । अस्पष्टं ह्यनुमानागमज्ञानमभ्यस्यमानमपि न तत्साक्षा
स्कारि भवितुमर्हति । न हि धूमानुमानज्ञानं ज्योतिःशास्त्रज्ञानं वाभ्यस्यमानमपि पावकग्रहादिसाक्षात्कारि कस्यचिद्दष्टम् । एतत्तु स्यादनभ्यस्तं तत्कतिपयकाठकलाविलम्बेनाभ्यस्तं तु सपदि समुन्मीलतीति ।
न च वचनीयं विलोक्यत एव कामशोकायुपप्लुतचेतसामस्पष्टस्यापि १५ ज्ञानस्य वैशद्यम् । तदुक्तम् । “कामशोकभयोन्मादचौरस्वमाधु
पप्लुताः । अभूतानपि पश्यन्ति पुरतोऽवस्थितानिव ॥१॥" इति तद्वदस्याप्युपप्लुतत्वप्रसक्तेः । किं च केवलज्ञानम्य सकलार्थग्रहणं सकलत्वं प्रधानभूतकतिपयार्थग्रहणं वा । प्रथमपक्षे क्रमेण तद्रहणं युगपद्वा । न तावत्क्रमण । अतीतानागतवर्तमानार्थानां परिसमाप्त्यभावतस्तज्ज्ञानस्याप्यपरिसमाप्तेः सर्वज्ञत्वायोगात् । नापि युगपत् , परस्परविरुद्धशीतोष्णाद्यर्थानामेकत्र ज्ञाने प्रतिभासासम्भवात् । सम्भवे वा प्रतिनियतार्थस्वरूपप्रतीतिविरोधः । एकक्षण एव च समस्तार्थग्रहणादकिञ्चिज्ज्ञोऽसौ द्वितीयक्षणे प्रसज्येत । परसन्तानतिरागादिसाक्षात्करणाद्रागादिमानप्येष प्राप्नुयात् । इतरथा सर्वार्थसाक्षात्करणविरोधः । नापि प्रधानभूतकतिपयार्थग्रहणं केवलज्ञानस्य सकलत्वं युक्तम् । इतरार्थव्येवच्छेदेनेतेषामेवाभिमतप्रयोजननिप्पादित्वात्प्राधान्यमित्येवं हि
२०
२५
"Aho Shrut Gyanam"