________________
३४६
प्रमाणनयतत्त्वालोकालङ्कारः [परि. २ सू. ५ कम् । धनसारादिना हेतोय॑भिचारात् । स हि सलिलादौं रूपादिषु शीतस्पर्शस्यैवाभिव्यञ्जको न च वायव्य इति । शब्दः स्वसमानजातीयविशेषगुणवतेत्याद्यपि स्वप्रक्रियोपदर्शनमात्रम् । शब्देऽम्बरगुणत्वस्य
प्रतिषेत्स्यमानत्वात् । ततो नेन्द्रियाणां प्रतिनियतभूतकार्यत्वं कुतोऽपि ५ प्रमाणात्सिद्धयतीति स्थितम् ॥ आहङ्कारिकत्वमपीन्द्रियाणां साङ्खयोपकल्पितं नोपपद्यते । तथा हि
. नाहङ्कारिकाणीन्द्रियाणि करणत्वाद्वास्यादिवत् । सांख्योपकल्पितस्येन्द्रियाणी मनसशाहद्वारिकत्वस्य प्रतिनियतविषयप्रकाशकत्वात् प्रदीपवत् । तथा
___ खण्डनम् । नाहङ्कारिकाणीन्द्रियाणि प्रतिनियतज्ञानव्यपदे१० शनिमित्तत्वाद्रूपादिवत् । यथैव हि रूपज्ञानं रसज्ञानमित्यादिप्रतिनियत
ज्ञानव्यपदेशहेतवो रूपादयो नाहङ्काकारिकास्तद्वन्चक्षुर्ज्ञानं रासनज्ञानमित्यादिप्रतिनियतज्ञानव्यपदेशहेतुत्वाच्चक्षुरादीन्द्रियाण्यपि । तथा नाहकारिकाणीन्द्रियाणि पौगलिकानुग्रहोपघाताश्रयत्वादर्पणादिवत् । यथैव
हि दर्पणादयः पौद्गलिकैर्भस्माश्मादिभिः क्रियमाणानुग्रहोपघाताश्रय१५ भूता नाहकारिकाः किं तु पौगलिकास्तथाञ्जनरेणुकणादिभिः पौग
लिकैः क्रियमाणानुग्रहोपघाताश्रयभूतानि चक्षुरादीन्द्रियाण्याप । एवं मनोऽपि नाहङ्कारिकमानियतविषयत्वादात्मवदिति । ततः पौगलिकत्वमेव द्रव्येन्द्रियानिन्द्रियाणां प्रतिपत्तव्यम् । नन्विन्द्रियनिवन्धनमनिन्द्रिय
निबन्धनं चेत्यसाम्प्रतमुक्तम् । आत्मादेरपि तत्कारणस्थात्राभिधानार्ह२० त्वात् । मैवम् । असाधारणस्यैव कारणस्याभिधातुमत्राकाड़ितत्वात् । आत्मादेः पुनरनुमानादिष्वपि कारणत्वेन साधारणत्वात् ॥ ५॥
अथास्य द्विविधस्यापि प्रत्यक्षस्य भेदप्रकटनार्थमाह॥ एतत् द्वितयमवग्रहहावायधारणाभेदादेकशचतु
विकल्पमिति ॥ ६॥ २५ एतदनन्तरोक्तम् । द्वितयमिन्द्रियनिबन्धनानिन्द्रियनिबन्धनप्रत्यक्ष
प्रमाणम् । एकशः प्रत्येकम् । चतुर्विकल्पं चतुर्भेदम् । कुत इत्याह अव
"Aho Shrut Gyanam"