SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका पुरुषचरिते ॥४२ ॥ त्वया क्वेदं प्राप्तमिति तुन्नवायेन भाषितः । शशंस श्रीमहावीरादवाप्तमिति स द्विजः ॥ १० ॥ बभाषे तुन्नवायस्तं द्वितीयमपि वाससः । अस्यार्धमानय मुनेस्तस्यानुपदमभ्यट ।। ११ ।। मुनेः पर्यटतस्तस्य लगित्वा कंटकादिषु । तत्पतिष्यति वासोऽर्धं सोऽनीहो न ग्रहीष्यति ॥ १२ ॥ तदादायाऽत्रानयेस्त्वं योजयित्वा दले उभे । अहं पूर्णीकरिष्यामि शुक्लपक्ष इवोडुपम् ॥ १३ ॥ दीनारलक्षं मूल्येऽस्य भविष्यति विभज्य तत् । अर्धमर्धं ग्रहीष्यावो भ्रातरौ सोदराविव ।। १४ ।। आमेत्युक्त्वा प्रभुमगात् स द्विजः प्रभुरप्यथ । ईर्यासमितिमान् सायं कूर्मारग्राममासदत् ।। १५ ।। नासाग्रन्यस्तनयनः प्रलम्बितभुजद्वयः । प्रभुः प्रतिर्मया तत्र तस्थौ स्थाणुरिव स्थिरः ।। १६ ।। तदा च गोपः कोऽप्येको वाहयित्वा दिनं वृषान् । ग्रामसीमन्युपस्वामि प्राप्त एवमचिन्तयत् ॥ १७ ॥ अत्रैव मे चरन्त्वेते वृषभा ग्रामसीमनि । अहं करिष्ये ग्रामान्तर्गत्वा दोहं पुनर्गवाम् ॥ १८ ॥ ध्यात्वैवं सोऽविशद् ग्रामं चरन्तस्तद्वृषाः पुनः । अटवीं विविशुर्गोपं विना तिष्ठन्ति ते न हि ॥ १९॥ स ग्रामात्त्वागतो गोपो मम क्व वृषभा इति । पप्रच्छ स्वामिनं स्वाम्यप्यवोचन्न हि किंचन ॥ २० ॥ तूष्णीके तु प्रभौ नैष किंचिद्वेत्तीति चिन्तयन् । उक्ष्णो मृगयमाणः स्वान् गोपोऽतीयाय तां निशाम् ॥ २१ ॥ ★ कायोत्सर्गेण । दशमं पर्व तृतीयः सर्गः श्रीमहावीर जिन चरितम् । द्विजाय अर्ध वस्त्र दानम् । ॥४२॥
SR No.009659
Book TitleTrishashti Shakala Purush Charitam Part 6
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages458
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy