SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते ॥३९॥ दधतुश्चमरबली दक्षिणोत्तरयोरधः । अन्ये भुवनपत्याद्या दधिरे तु यथोचितम् ॥ १९० ॥ तदानीं गच्छदागच्छद्देवैरजनि संकुलम् । दिनान्ते पक्षिभिरिवान्तरिक्षमधिकत्वरैः ।। १९१ ।। तया शिबिकया स्वामी त्रिदशैरुह्यमानया । ज्ञातखंडवनं नाम ययावुपवनोत्तमम् ॥ १९२ ॥ प्रियस्येव हिमऋतोरागमे कोरकच्छलात् । रोमाञ्चिताङ्गीभिरिव लवलीभिर्मनोरमम् ।। १९३ ।। कुसुंभरक्तवासोभिरिव न्यस्तैर्वनश्रिया । नागरङ्गवनैः पक्वफलमालिभिरंकितम् ॥ १९४ ॥ कृष्णेक्षूणां मिथः पत्राश्लेषसांराविणैः सदा । पथिकानाह्वयदिव तदुद्यानं विवेश सः ।। १९५ ।। ।। त्रिभिर्विशेषकम् ।। शिबिकायाः समुत्तीर्य भूषणान्यत्यजत्प्रभुः । देवदूष्यं देवराजः स्कन्धे च निदधे प्रभोः ।। १९६ ॥ मुष्टिभिः पञ्चभिः केशानुद्दधे त्रिजगद्गुरुः । प्रतीक्ष्य दूष्ये तान् शक्रश्चिक्षेप क्षीरनीरधौ ॥। १९७ ।। तेनागत्य निषिद्धेऽथ तुमुले त्रिजगत्प्रभुः । कृत्वा सिद्धनमस्कारं चारित्रं प्रत्यपद्यत ।। १९८ ।। १ प्रतीष्य । दशमं पर्व द्वितीयः सर्गः श्रीमहावीर जिनचरितम् । प्रव्रज्याग्रहणम् । ॥३९॥
SR No.009659
Book TitleTrishashti Shakala Purush Charitam Part 6
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages458
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy