SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ दशमं पर्व द्वितीयः त्रिषष्टिशलाकापुरुषचरिते ॥३२॥ सर्गः श्रीमहावीरजिनचरितम् । वर्धमान इत्यभिख्या सूनोरस्य तदस्तु भोः । प्रत्यभाषि प्रमुदितैरेवमस्त्विति तैरपि ।। ९९ ।। ।। युग्मम्।। महोपसगैरप्येष न कंप्य इति वज्रिणा । महावीर इत्यपरं नाम चक्रे जगत्पतेः ।। १०० ।। सोऽहंपूर्विकया भक्तैः सेव्यमानः सुरासुरैः । दृशा पीयूषवर्षिण्या सिञ्चन्निव वसुन्धराम् ।। १०१ ॥ अष्टोत्तरसहस्रेण लक्षणैरुपलक्षितः । निसर्गेण पुण्यैर्वृद्धो वयसा ववृधे क्रमात् ।। १०२ ।। राजपुत्रैः सवयोभिः समं न्यूनाष्टवत्सरः । वयोऽनुरुपक्रीडाभिः सोऽन्यदा क्रीडितुं ययौ ।। १०३ ।। तदा ज्ञात्वाऽवधिज्ञानान्मध्येसुरसभं हरिः । धीरा अनुमहावीरमिति वीरमवर्णयत् ।। १०४ ॥ क्षोभयिष्यामि तं वीरमेषोऽहमिति मत्सरी । आजगामामरः कोऽपि यत्र क्रीडन्नभूद्विभुः ।। १०५ ॥ कुर्वत्यामलकी क्रीडां राजपुत्रैः सह प्रभौ । सोऽधस्तस्थौ विटपिनो भुजगीभूय मायया ।। १०६ ॥ तत्कालं राजपुत्रेषु वित्रस्तेषु दिशो दिशि । स्मित्वा रज्जुमिवोत्क्षिप्य तं चिक्षेप क्षितौ विभुः ॥१०७ ॥ सव्रीडाः क्रीडितुं तत्र कुमाराः पुनराययुः । कुमारीभूय सोऽप्यागात् सर्वेऽप्यारुरुहुस्तरुम् ।। १०८ ॥ पादपाग्रं कुमारेभ्यः प्राप प्रथमतः प्रभुः । यद्वा कियदिदं तस्य यो लोकाग्रं गमिष्यति ।। १०९ ।। शुशुभे भगवांस्तत्र मेरुशृंग इवार्यमा । लम्बमाना बभुः शाखास्वन्ये शाखामृगा इव ।। ११०॥ जिग्ये भगवता तत्र कृतश्चासीदयं पणः । जयेद्य इह स ह्यन्यान् पृष्टमारुह्य वाहयेत् ।। १११ ।। आरुह्यावाहयद्वाहानिव वीरः कुमारकान् । आरुरोह सुरस्यापि पृष्ठं प्रष्ठो महौजसाम् ।। ११२ ॥ नामस्थापनम् । ॥३२॥
SR No.009659
Book TitleTrishashti Shakala Purush Charitam Part 6
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages458
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy