SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाका पुरुषचरिते ॥२४॥ द्वितीयः सर्गः ܀܀܀ इतश्च जंबूद्वीपेऽस्मिन् क्षेत्रेऽस्ति भरताभिधे । ब्राह्मणकुंडग्रामाख्यसंनिवेशो द्विजन्मनाम् ।। १ ।। तत्र चर्षभदत्तोऽभूत् 'कौडालसकुलो द्विजः । देवानन्दा च तद्भार्या जालन्धरकुलोद्भवा ।। २ ।। च्युत्वा च नन्दनो हस्तोत्तरर्क्षस्थे निशाकरे । आषाढस्य श्वेतषष्ठयां तस्याः कुक्षाववातरत् ।। ३ ।। देवानन्दा सुखसुप्ता महास्वप्नांश्चतुर्दश । ददर्श प्रातराख्यच्च पत्ये सोऽपि व्यचारयत् ॥ ४ ॥ चतुर्णां छन्दसां पारदृश्वा परमनैष्ठिकः । सूनुर्भवत्या भविता स्वप्नैरैभिर्न संशयः ।। ५ ।। देवानन्दागर्भगते प्रभो तस्य द्विजन्मनः । बभूव महती ऋद्धिः कल्पद्रुम इवागते ।। ६ ।। तस्या गर्भस्थिते नाथे द्वयशीतिदिवसात्यये । सौधर्मकल्पाधिपतेः सिंहासनमकंपत ॥ ७ ॥ ज्ञात्वा चावधिना देवानन्दागर्भगतं प्रभुम् । सिंहासनात् समुत्थाय शक्रो नत्वेत्यचिन्तयत् ॥ ८ ॥ त्रिजगद्गुरवोऽर्हन्तो नोत्पद्यन्ते कदाचन । तुच्छकुले रोरकुले भिक्षावृत्तिकुलेऽपि वा ॥ ९ ॥ १ ख्यः । २ कोडा' । दशमं पर्व द्वितीयः सर्गः श्रीमहावीर जिनचरितम् । देवानन्दा कुक्षौ प्रभोः अवतरणम् । ॥२४॥
SR No.009659
Book TitleTrishashti Shakala Purush Charitam Part 6
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages458
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy