SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका पुरुषचरितं ॥ ३५३ ॥ स कौबेरीमातुरुष्कमैन्द्रीमात्रिदशापगम् । याम्यामाविन्ध्यमावार्धि पश्चिमां साधयिष्यति ।। ५२ ।। अन्यदा वज्रशाखायां मुनिचन्द्रकुलोद्भवम् । आचार्यं हेमचन्द्रं स द्रक्ष्यति क्षितिनायकः ।। ५३ ।। तद्दर्शनात्प्रमुदितः केकीवाऽम्बुददर्शनात् । तं मुनिं वन्दितुं स भद्रात्मा त्वरिष्यते ।। ५४ ।। तस्य सूरेर्जिनचैत्ये कुर्वतो धर्मदेशनाम् । राजा सश्रावकामात्यो वन्दनाय गमिष्यति ।। ५५ ।। तत्र देवं नमस्कृत्य स तत्त्वमविदन्नपि । वन्दिष्यते तमाचार्यं भावशुद्धेन चेतसा ॥ ५६ ॥ स श्रुत्वा तन्मुखात्प्रीत्या विशुद्धां धर्मदेशनाम् । अणुव्रतानि सम्यक्त्वपूर्वकाणि प्रपत्स्यते ।। ५७ ।। स प्राप्तबोधो भविता श्रावकाचारपारगः । आस्थानेऽपि स्थितो धर्मगोष्ठ्या स्वं रमयिष्यति ॥ ५८ ॥ अन्नशाकफलादीनां नियमांश्च विशेषतः । आदास्यते प्रत्यहं स प्रायेण ब्रह्मचर्यकृत् ।। ५९ ।। साधारणस्त्रीर्न परं स सुधीर्वर्जयिष्यति । धर्मपत्नीरपि ब्रह्म चरितुं बोधयिष्यति ।। ६० ।। मुनेस्तस्योपदेशेन जीवाजीवादितत्त्ववित् । आचार्य इव सोऽन्येषामपि बोधि प्रदास्यति ॥ ६१ ॥ येऽर्हद्धर्मद्विषः केऽपि पांडुरोह्नद्विजादयः । तेऽपि तस्याऽऽज्ञया गर्भश्रावका इव भाविनः ।। ६२ ।। अपूजितेषु चैत्येषु गुरुष्वप्रणतेषु च । न भोक्ष्यते स धर्मज्ञः प्रपन्नश्रावकव्रतः ॥ ६३ ॥ अमृतपुंसां स द्रविणं न ग्रहीष्यति । विवेकस्य फलं ह्येतदतृप्ता ह्यविवेकिनः ।। ६४ ।। १ सुविशुद्धेन । २ 'रागद्वि' । 'रांगाद्वि० । 'तयः । विक्रा । दशमं पर्व द्वादशः सर्गः श्रीमहावीर जिनचरितम् । भाविकुमारपालदेव चरित्रम् | ।।३५३ ।।
SR No.009659
Book TitleTrishashti Shakala Purush Charitam Part 6
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages458
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy