SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाका पुरुषचरिते ।। ३४० ।। मूर्धजान्मूर्ध्न उद्धृत्य स्वयं देवतयाऽर्पितम् । रजोहरणवदनवस्त्रिकादिकमाददे ।। ५१३ ।। राजानं गतो राज्ञाऽपृच्छीति किमचिन्तयः ? । स्वमनोरथविस्तारमथाऽऽख्यायाब्रवीदिति ।। ५१४ ।। यथा लाभस्तथा लोभो लाभाल्लोभः प्रवर्धते । द्विमाष्या चिन्तितं कार्यं कोट्याऽपि न हि निष्ठितम् ।। ५१५ ।। राजाऽपि विस्मितः प्रोचे कोटीरपि ददाम्यहम् । भुंक्ष्व भोगान् व्रतं मुञ्च न व्रते प्रतिभूस्तव ।। ५१६ ।। कपिलोऽप्यब्रवीदर्थे राजन्नलमनर्थदैः । निर्ग्रन्थीभूतवानस्मि धर्मलाभोऽस्तु भद्र ! ते ।। ५१७ ।। इत्युक्त्वा कपिलमुनिस्ततो निर्गत्य निर्ममः । निरीहो निरहंकारो विजहार वसुन्धराम् ।। ५१८ ॥ एवं व्रतं पालयतः कपिलस्य महामुनेः । षण्मासपर्ययेणाभूत् केवलज्ञानमुज्ज्वलम् ।। ५१९ ।। इतश्चासीद्राजगृहनगरस्यान्तरालगा । अष्टादशयोजनानुप्रमाणा दारुणाटवी ।। ५२० ।। तत्र 'वेक्क्डदासाख्या बलभद्रादयोऽभवन् । शतानि पञ्च चौरास्तान् बोधार्हान् कपिलोऽबुधत् ।। ५२१ ॥ चौराणामुपकाराय तेषां च स महामुनिः । अभ्यागात्तामरण्यानीं शरण्यः सर्वजन्मिनाम् ।। ५२२ ॥ एकश्च चौरो वृक्षाग्रमधिरुढः प्लवंगवत् । ददर्श दुरादायातं कपिलं श्रमणोत्तमम् ।। ५२३ ॥ स चौरोऽचिन्तयत् कोऽयमागच्छत्यभिभूय नः । तमाख्यदिति सेनान्ये सेनान्यं सोऽप्युपाययौ ।। ५२४ ॥ दिष्ट्या क्रीडनमयातमिति सेनापतिर्बुवन् । नृत्य नृत्य श्रमणकेत्यज्ञ आज्ञापयन्मुनिम् ।। ५२५ ।। १ च कड° । दशमं पर्व एकादशः सर्गः श्रीमहावीर जिनचरितम् । उदायन नृपतिचरित्रम् | ॥ ३४० ॥
SR No.009659
Book TitleTrishashti Shakala Purush Charitam Part 6
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages458
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy