SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाका पुरुषचरिते ॥३३४ ॥ I तपस्व्यूचे पुरस्यास्य विद्यते नातिदूरतः । आश्रमो दृष्टिविश्रामः स ईक्फलजन्मभूः ।। ४३३ ।। तमाश्रमं दर्शयेति ब्रुवाणं नृपतिं सुरः । स्वशक्त्यैकाकिनं कृत्वां विद्यां दातुमिवानयत् ।। ४३४ ।। किंचिद्गत्वा विचक्रे च तादृक्फलमनोरमम् । अनेकतापसाकीर्णमुद्यानं नन्दनोपमम् ।। ४३५ ।। तापसानां वनमिदं भक्तस्तेष्वस्मि तेन मे । पूरिष्यते फलेच्छेति दधावे कपिवन्नृपः ।। ४३६ ।। सक्रोधमथ धावद्भिस्तैर्मायातापसैर्नृपः । कुट्यमानस्तस्करवत् पलायिष्टाविनष्टधीः ।। ४३७ ।। पलायमानश्चापश्यदग्रे साधूनवस्थितान् । शरणं प्रतिपेदे तान्मा भैषीरिति भाषिणः ।। ४३८ ।। आश्वासितस्तैर्नृपतिः स्वस्थीभूयेत्यचिन्तयत् । वंचितोऽस्मि धिगाजन्म तापसैः क्रूरकर्मभिः ।। ४३९ ॥ साधुभिः सोऽन्वशास्येवं धर्मो हि शरणं भवे । धर्मार्थी च परीक्षेत देवं धर्मं गुरुं सुधीः || ४४० ॥ देवोऽष्टादशभिदोषैर्मुक्तो धर्मो दयाऽन्वितः । गुरुश्च ब्रह्मचार्येव निरारम्भपरिग्रहः ।। ४४१ ।। एवमाद्युपदेशेन प्रत्यबुध्यत पार्थिवः । जिनधर्मश्च तस्याभूद् हृद्युत्कीर्ण इव स्थिरः ।। ४४२ ।। प्रत्यक्षीभूय देवोऽर्हद्धर्मे संस्थाप्य पार्थिवम् । तिरोदधे पार्थिवोऽथ स्वमास्थानीस्थमैक्षत ॥ ४४३ ॥ देवतत्त्वगुरुतत्त्वधर्मतत्त्वाधिवासितः । तदाप्रभृत्यभूत्सम्यगुदायनमहीपतिः ।। ४४४ ॥ इतश्च गान्धारदेशजन्मा गान्धारनामकः । शाश्वतीरर्हत्प्रतिमा वैताढ्येऽगाद्विवन्दिषुः || ४४५ ॥ वैताढ्यमूले तस्थौ चोपवासैस्तद्दिध्क्षया । तुष्टा शासनदेवी च तदीप्सितमपूरयत् ॥ ४४६ ॥ दशमं पर्व एकादशः सर्गः श्रीमहावीरजिनचरितम् । उदायन नृपतिचरित्रम् | ॥ ३३४ ॥
SR No.009659
Book TitleTrishashti Shakala Purush Charitam Part 6
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages458
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy