SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ एकादशः सर्गः । दशमं पर्व एकादशः त्रिषष्टिशलाकापुरुषचारते ॥३०१॥ सर्गः श्रीमहावीरजिनचरितम् । इतश्च भगवान् वीरो लोकानुग्रहकाम्यया । व्यहार्षीन्नगरपामाकरद्रोणमुखादिषु ।। १ ।। इतश्च राजगृहस्य वैभारगिरिकन्दरे । चौरो लोहखुराख्योऽभूद्रौद्रो रस इवांगवान् ॥ २ ॥ स तु राजगृहे नित्यं पौराणामुत्सवादिषु । लब्ध्वा छिद्राणि विदधे पिशाचवदुपद्रवम् ।। ३ ।। आददानस्ततो द्रव्यं भुञानश्च परस्त्रियः । भांडागारं निशान्तं वा निजं मेने स तत्पुरम् ।। ४ ।। चौर्यमेवाभवत्तस्य प्रीत्यै वृत्तिर्न चापरा । अपास्य क्रव्यं क्रव्यादा भक्ष्यैस्तृप्यन्ति नापरैः ।। ५ ।। तस्यानुरुपो रुपेण चेष्टया च सुतोऽभवत् । भार्यायां रोहिणीनाम्न्यां रौहिणेयोऽभिधानतः ।। ६ ।। स्वमृत्युसमये प्राप्ते पित्राऽऽहूयेत्यभाषि सः । यद्यवश्यं करोषि त्वमुपदेशं ददामि तत् ॥७॥ अवश्यमेव कर्तव्यमादिष्टं भवता मया । कः पितुः पातयेदाज्ञां पृथिव्यामित्युवाच सः ।। ८ ॥ १°खरा ।२ "त्यभाष्यत । रौहिणेयचरित्रम् । ||३०१॥
SR No.009659
Book TitleTrishashti Shakala Purush Charitam Part 6
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages458
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy