SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ दशमं पर्व त्रिषष्टिशलाकापुरुषचरिते ।।२७९॥ नवमः सर्गः श्रीमहावीरजिनचरितम् । इत्युदित्वा पुंडरीकः कंडरीकं तदर्थिते । राज्ये निवेशयामास राज्यचिह्मानि चार्पयत् ।। २२३ ॥ पुंडरीकनृपस्तस्माद्यतिलिंगान्युपाददे । स्वयमात्तपरिव्रज्यः शुद्धधीळहरत्ततः ।। २२४ ।। भग्नव्रतः कृशो रंक इवान्नार्थीति सेवकैः । हस्यमानः कंडरीकश्चुकोप हृदयेऽधिकम् ।। २२५ ।। भुजेऽहं प्रथमं तावत्पश्चादेषां प्रहासिनाम् । करिष्यामि वधादीति चिन्तयन् स गृहे ययौ ।। २२६ ।। जघन्यमध्यमोत्कृष्टस्त्रिधाऽऽहारो यदृच्छया । प्रातः कपोतयूनेव तेनाकण्ठमभुज्यत ।। २२७ ।। भोगजागरणाद्रात्रावत्याहाराच्च दुर्जरात् । जज्ञे विसूचिका तस्य महत्यरतिरप्यभूत् ।। २२८ ।। उत्फुल्लमुदरं तस्य भस्त्रेवानिलपूरिता । निरुद्धः पवनस्तृष्णादाहश्च समभून्महान् ।। २२९ ।। भ्रष्टप्रतिज्ञः पापोऽसाविति ध्यात्वा नियोगिभिः । अकारितचिकित्सोऽथ सोऽर्तिमानित्यचिन्तयत्।। २३० ।। कथंचिद्यद्य रात्रिमत्यष्यामि तदा प्रगे । सकुटुम्बान् हनिष्यामि सर्वानेतान्नियोगिनः ।। २३१ ।। एवं च कृष्णलेश्यावान् रौद्रध्यानी व्यपादि सः । उदपाद्यप्रतिष्ठाने नारकः सप्तमावनौ ।। २३२ ।। दिष्ट्या चिरेष्टो लब्धो यो धर्मस्तं गुरुसाक्षिकम् । करोमीति पुंडरीकोऽप्यचालीत् सद्गुरुं प्रति ।। २३३ ।। समीपे सुगुरोर्गत्वा पुनरादाय स व्रतम् । पारणामष्टमस्यान्ते पुंडरीकमुनिर्व्यधात् ।। २३४ ।। अतिवेलैः शीतरुक्षराहारैः पीडितो मृदुः । भूचारविगलत्पादासृगुद्भुतपरिश्रमः ।। २३५ ॥ १"र्थिन । २ स गुरुं । ३ नास्ति अयं श्लोकः इत्यत्र । पुण्डरीककंडरीकचरित्रम् । ।२७९॥
SR No.009659
Book TitleTrishashti Shakala Purush Charitam Part 6
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages458
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy