SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका पुरुषचरिते ।।१९३।। तस्याः सीत्कारमात्रेणाल्पनिद्रः पार्थिवोऽपि हि । प्रबुद्धस्तद्वचः श्रुत्वा चिन्तयामास चेतसि ॥ २३ ॥ नूनमस्या मनस्यन्यः प्रेयानस्ति रिरंसितः । शीताऽऽर्तिसंभावनया यमेवमनुशोचति ॥ २४ ॥ स ताम्यन्नीर्ष्यया चैवं तां निशां जाग्रदत्यगात् । प्रियजानिरकुहनो न कदाऽपि सचेतनः ॥ २५ ॥ अन्तरन्तःपुरं गन्तुं प्रातरादिश्य चेल्लणाम् । आहूयाभयमित्यूचे श्रेणिकश्चण्डशासनः ।। २६ ।। ज्ञातमन्तःपुरमभूद्रे दुराचारदूषितम् । तत्सर्वं ज्वाल्यतां मा भूर्मातृमोहादनीदृशः ॥ २७ ॥ इत्यादिश्याऽभयं राजा राजमानोऽद्भुतश्रिया । अर्हद्भट्टारकं वीरस्वामिनं वन्दितुं ययौ ॥ २८ ॥ अभयः सभयस्ताते स्वभावाच्च विमृश्यकृत् । मन्त्रविन्मन्त्रयाञ्चक्रे मनीषी मनसा सह ।। २९ ।। सतीमतल्लिकाः सर्वा मातरो मे स्वभावतः । तास्वहं कृतरक्षोऽस्मि तातस्याऽऽज्ञा च तादृशी ॥ ३० ॥ संभावितं त्वसंभाव्यं तातपादैः करोमि किम् । नदीपूर इवासह्यः कोपो हि प्रथमं प्रभोः ।। ३१ ।। तथाऽपि चित्रमुत्पाद्य कालक्षेपः करिष्यते । कालक्षेपाद्यदि पुनः प्रभोः कोपो निवर्तते ।। ३२ ।। शुद्धान्तसन्निधौ जीर्णेभकुटीरभयस्ततः । ज्वालयामास निर्दग्धः शुद्धान्त इति घोषयन् ।। ३३ ।। इतश्च श्रेणिकोऽपृच्छत् समये परमेश्वरम् । एकपत्नी किमनेकपत्नी वा चेल्लणा प्रभो ! ॥ ३४ ॥ टि. * अकुहनः अनीर्ष्यालुः । **** दशमं पर्व सप्तमः सर्गः श्रीमहावीर जिन चरितम् । एकस्तंभप्रासाद निर्माणम् । 1198311
SR No.009659
Book TitleTrishashti Shakala Purush Charitam Part 6
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages458
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy