SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ | दशमं पर्व त्रिषष्टिशलाकापुरुषचरिते ७४॥ तृतीयः सर्गः श्रीमहावीरजिनचरितम् । मार्गे गोपै राध्यमानं पायसं प्रेक्ष्य मखसूः । ऊचेऽतिक्षुधितोऽस्म्येहि कुर्मः पायसभोजनम् ।। ४१४ ॥ सिद्धार्थः स्माह निष्पति नेदं यास्यति पायसम् । गोशालोऽप्येत्य गोपालान् दुष्टधीरित्यभाषत ।। ४१५ ॥ देवार्योऽयं त्रिकालज्ञ आख्याति यदसावुखा* । स्फुटिष्यत्यर्धनिष्पन्नपायसैवामभांडवत् ॥ ४१६ ॥ भीता वंशदलैः स्थाली बबन्धुस्तां च गोपकाः । भूयिष्ठैस्तंडुलैः क्षिप्तैर्विकसद्भिश्च साऽस्फुटत् ।। ४१७ ॥ आदाय कर्पराण्यादुर्गापास्तदपि पायसम् । तदलाभे च गोशालोऽत्यन्तं नियतिमग्रहीत् ।। ४१८ ॥ स्वाम्यगाद् ब्राह्मणग्रामे द्वौ स्तस्तत्र च पाटकौ । तयोर्नन्दोपनन्दाख्यौ स्वामिनौ भ्रातरावुभौ ।। ४१९ ॥ षष्ठपारणके स्वामी प्राविशन्नन्दपाटके । स दध्युषितकूरेण नन्देन प्रत्यलाभि च ।। ४२० ।। गोशालः पाटकेऽन्यस्मिन् प्रविष्टः प्रेक्ष्य वेश्म च । उत्तुंगमुपनन्दस्य ययौ भिक्षार्थमादृतः ॥ ४२१ ।। उपनन्दाज्ञया दासी कूरं तस्योषितं ददौ । तच्चानिच्छन्नुपनन्दमाचुक्रोश स दुष्टधीः ॥४२२ ॥ उपनन्दोऽवदद्भक्तं नैष गृह्णाति चेत्तदा । अस्य मूर्ध्नि क्षिप क्षिप्रं सापि चक्रे तथैव हि ।। ४२३ ॥ गोशालः कुपितोऽवोचन्मद्गुरोरस्ति चेत्तपः । तेजो वा तर्हि सद्योऽपि दह्यतामस्य मन्दिरम् ।। ४२४ ।। मा स्वामिनामग्रहणाद्वन्ध्यः शापोऽपि भूदिति । तत्रस्थव्यन्तराः सद्माधाक्षुस्तत्तृणपुंजवत् ॥ ४२५ ॥ टि.- * 'हांडली' इति गुर्जरभाषायाम् । १°राम° । २ °पूल । उपसर्गवर्णनम् । ७४॥
SR No.009659
Book TitleTrishashti Shakala Purush Charitam Part 6
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages458
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy