SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते ॥६६॥ दशमं पर्व तृतीयः सर्गः श्रीमहावीर| जिनचरितम् । तथैव प्रत्यहं चक्रे साभीरी प्रीतमानसा । तां *वेषवारदानेन सच्चक्रे साधुदास्यपि ।।३१०॥ द्वयोः प्रववृते स्नेहः स्वस्रोरिव तयोर्महान् : आभीर्याः सदने तस्या विवाहोऽभवदन्यदा ।। ३११ ॥ निमन्त्रितौ तयोद्वाहे श्रेष्ठिनावेवमूचतुः । आवामक्षणिकौ भद्रे ! नागन्तुं तत्र शक्नुवः ॥ ३१२ ॥ यत्तु वस्तु विवाहाहं तद् गृहाणास्मदालयात् । इत्युक्त्वा ददतुर्वस्त्रधान्यालंकरणादिकम् ।। ३१३ ।। तद्दत्तैर्वस्तुभिस्तस्या विवाहः शोभनोऽभवत् । सर्वस्वजनगोपानामेकं शृंगारकारणम् ।। ३१४ ॥ गोपाः प्रीता रुपवन्तौ द्वावुक्षाणौ त्रिहायणौ । नाम्ना कंबलशबलौ श्रेष्ठ्यर्थमुपनिन्यिरे ।। ३१५ ।। श्रेष्ठिनोऽनाददानस्याप्युक्षाणौ ते बलादपि । द्वारे बद्ध्वा ययुर्गोपा गोपानां स्नेह ईदृशः ।। ३१६ ।। अथ दध्यौ जिनदासो मुच्येते यद्यमू वृषौ । हलादौ योजयिष्येते तदा हि प्राकृतैनरैः ।। ३१७ ।। इह चानुपकारित्वाद् दुष्पालौ किं करोमि हा । कीदृशे पातितोऽस्म्येष मूर्खः स्नेहेन संकटे ।। ३१८ ॥ इति ध्यात्वा कृपापूर्णः श्रेष्ठी तावपुषद् वृषौ । तृणादिना प्रासुकेन पयसा गलितेन च ॥३१९ ॥ श्रेष्ठ्यष्टम्यां चतुर्दश्यामुपवास्यात्तपौषधः । अवाचयद्धर्मशास्त्रपुस्तकं शृण्वतोस्तयोः ।। ३२० ॥ जज्ञाते भद्रकौ तौ च धर्माकर्णनतोऽन्वहम् । श्रेष्ठी यत्राह्नि नाभुंक्त नाभुजातां च तत्र तौ ।। ३२१ ॥ टि- 'वस्त्रादिदानेन ॥ १°वर्तते । २०र्खस्ने। सुदामसुरकृत उपसर्गः । TIEE II
SR No.009659
Book TitleTrishashti Shakala Purush Charitam Part 6
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages458
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy