SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका पुरुषचरिते 1199 11 ततः परं यद्भवद्भिः कृतं तेनाप्तचेतनः । भूयोऽभूवं महाभाग धर्मलाभोऽस्तु तेऽनघ ।। १२१ ।। यथा क्षणान्नष्टसंज्ञोऽभूवं सर्वं तथा भवे । ईदृगेव ततो धर्मः करणीयः शुभैषिणा ।। १२२ ॥ इत्युदित्वा तदुचितं गृहिधर्मं जिनोदितम् । सम्यक्त्वमूलं तस्याख्यन्मुनिचन्द्रो मुनीश्वरः ।। १२३ ।। धनवत्या समं सोऽथ मुनिचन्द्रमुनेः पुरः । गृहस्थधर्मं सम्यक्त्वप्रधानं प्रत्यपद्यत ।। १२४ ।। गृहे च नीत्वा तेनर्षिः पानान्नैः प्रत्यलाभि सः । तत्रैव धर्मशिक्षार्थं कंचित्कालं च वासितः ॥। १२५ ।। धनं मुनिरनुज्ञाप्य स्वगच्छेनामिलत्पुनः । सम्यक्छ्रावकधर्मौ चाभूतां धनवतीधनौ ।। १२६ ।। तौ पुरापि मिथः प्रीतिभाजौ धनवतीधनौ । एकधर्मरतत्वाच्च विशेषेण बभूवतुः ।। १२७ ।। पित्रान्तकाले स्वे राज्येऽभिषिक्तोऽथ स्वयं धनः । समं श्रावकधर्मेणापालयद्विधिवन्महीम् ॥ १२८ ॥ तस्यान्यदोद्यानपाल आख्यादुद्यानगह्वरे । आयातपूर्व्यायातोऽस्ति वसुन्धरमहामुनिः ।। १२९ ।। गत्वा ववंदे सद्यस्तं धनवत्यन्वितो धनः । देशनां चाश्रृणोत्तस्माद्भवांभोधिमहातरीम् ॥ १३० ॥ भवोद्विग्नो धनो राज्ये सुतं धनवतीभवम् । जयन्तं नाम पुण्येऽह्नि न्यधत्त तदनन्तरम् ॥ १३१ ॥ वसुन्धराद्धनो दीक्षां धनवत्या सहाददे । धनभ्राता धनदत्तो धनदेवश्च पृष्ठतः ।। १३२ ।। धनर्षिर्गुरुपादान्ते तपस्तेपे सुदुस्तपम् । गीतार्थः सन् गुरुणा चाचार्यके स्थापितः क्रमात् ॥ १३३ ॥ १ यः पूर्वमायातः स आयातपूर्वी । अष्टमं पर्व प्रथमः सर्गः श्रीअरिष्टनेमिजिन चरितम् । पूर्वभवचरिते प्रथमो धनभवः । 11 99 11
SR No.009658
Book TitleTrishashti Shakala Purush Charitam Part 5
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size95 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy