SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते ॥१॥ अष्टमं पर्व प्रथमः [ प्रथमः सर्गः । सर्गः श्रीअरिष्टनेमिजिनचरितम् । | पूर्वभव चरिते ॐ नमो विश्वनाथाय जन्मतो ब्रह्मचारिणे । कर्मवल्लीवनच्छेदनेमयेऽरिष्टनेमये ।। १ ।। श्रीनेमेरर्हतः कृष्णविष्णो रामस्य सीरिणः । जरासिन्धुप्रतिहरेश्चरितं कीर्तयिष्यते ॥२॥ जंबुद्वीपे द्वीपेऽत्रैव क्षेत्रेऽत्रैवास्ति भारते । अचलायाः शिरोरलं नाम्नाचलपुरं पुरम् ।। ३ ।। तत्राभूद्विक्रमधनाभिधानो वैसुधाधवः । यथार्थनामा समरे विक्रमाक्रान्तशात्रवः ।। ४ ।। कृतान्त इव दुष्प्रेक्ष्योऽसुहृदां सुहृदां पुनः । स नेत्रानंदजननो निशाकर इवाभवत् ।। ५ ।। कल्पद्रुमः प्रणयिनां वज्रदंडश्च वैरिणाम् । चकासामास तस्योच्चैर्दोदडश्चंडतेजसः ॥ ६ ॥ १ नेमिश्चक्रधारा । २ पृथ्वीपतिः । ३ विक्रमेणाक्रांतः शत्रुसमूहः शत्रुबलं वा येन सः । ४ हस्तः । प्रथमो धनभवः । ||॥१ ॥
SR No.009658
Book TitleTrishashti Shakala Purush Charitam Part 5
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size95 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy