SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ । त्रिषष्टिशलाकापुरुषचरिते ।।१८३॥ अष्टम पर्व पञ्चमः | सर्गः श्रीअरिष्टनेमिजिनचरितम् । रुपेणाप्रतिरुपस्त्वं वसुदेव यथा नृषु । नारीषु देवकसुता तथा सा खलु देवकी ।। ५१ ॥ परिणीतास्त्वया बढ्यः खेचर्योऽपि हि कन्यकाः । असारा मन्यसे तास्तु नूनं संप्रेक्ष्य देवकीम् ।। ५२ ।। अस्मिन्नुचितसंयोगे मा भूद्वितः कुतोऽप्यतः । गत्वाख्यास्यामि देवक्यै वसुदेव भवद्गुणान् ।। ५३ ॥ इत्युक्त्वोत्पत्य स मुनिर्देवकीसदनं ययौ । तयार्चितश्चाशास्तेति वसुदेवो वरोऽस्तु ते ।। ५४ ।। वसुदेवः क इत्युक्तस्तया स मुनिरब्रवीत् । युवा दशार्हो दशमो विद्याधरवधूप्रियः ।। ५५ ।। किमन्यद्यस्य रुपेण तुल्या देवादयोऽपि न । वसुदेवः स इत्युक्त्वा नारदर्षिस्तिरोदधे ।। ५६ ।। ॥युग्मम् ।। तद्गिरा हृदि देवक्या विवेशानकदुन्दुभिः । आयातौ मृत्तिकावत्यां पुर्यां तु क्रमयोगतः ॥ ५७ ।। देवकेनार्चितौ तौ तु शौरिकंसौ विवेकिना । आसयित्वासनेऽनघे पृष्टावागमकारणम् ।। ५८ ।। कंसोऽप्यवोचदुचितां वसुदेवाय देवकीम् । प्रदापयितुमत्रागामिदमागमकारणम् ।। ५९ ॥ अवदद्देवको नैष विधिः कन्यार्थमागमः । स्वयमेव वरस्येति दास्याम्यस्मै न देवकीम् ।।६०॥ एवं विलक्षौ तौ द्वावपीयतुः शिबिरं निजम् । अंतःपुरं प्रावशित्तु देवकः पृथिवीपतिः ।।६१ ॥ नमस्कृतोऽथ देवक्या देवकः परया मुदा । अनुरुपं वरं पुत्रि लभस्वेत्याशिषं ददौ ।। ६२ ।। आख्यच्च देवको देव्यै वसुदेवाय देवकीम् अद्य दापयितुं कंस उद्युक्तो मामयाचत ।। ६३ ।। वसुदेवविवाहः । देवक्यो || १८३॥
SR No.009658
Book TitleTrishashti Shakala Purush Charitam Part 5
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size95 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy