SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ | अष्टमं पर्व तृतीयः त्रिषष्टिशलाकापुरुषचरिते ॥१५१॥ सर्गः श्रीअरिष्टनेमिजिनचरितम् । दानशालास्थितान्येधुश्चौरमेकं ददर्श सा । बद्ध्वारक्षैर्नीयमानं वाद्यमानाग्रडिंडिमम् ॥७८१ ।। अपृच्छन्द्भीमतनयाप्यारक्षानमुना हि किम् । अपराद्धं वधप्राप्तिप्रक्रियास्य यदीदृशी ।। ७८२ ।। एष चंद्रवतीदेव्या जहे रत्नकरंडिकाम् । वध्योऽसौ कर्मणानेनेत्याख्यन्नारक्षपूरुषाः ॥७८३ ॥ चौरोऽपि नत्वा वैदर्भीमूचे दृष्टिोस्मि ते दृशा । कथं प्राप्स्यामि मरणं शरणं भव देवि मे ।। ७८४ ।। आरक्षानागमय्योचे तं चौरं दवदंत्यपि । मा भैषीर्जीवितव्येन कुशलं ते न संशयः ।।७८५ ॥ इत्युक्त्वा भीमतनया सतीत्वश्रावणां व्यधात् । सत्यस्मि चेद्विशीर्यतां बंधनान्यभितोऽस्य तु ॥ ७८६ ।। सतीत्वश्रावणामेवं कृत्वा भृगौरवारिणा । त्रिस्तमाच्छोटयच्चौरं द्राक् तबंधाश्च तुत्रुटुः ।। ७८७ ।। अथोत्थिते कलकले किमेतदिति चिंतयन् । ऋतुपर्णनृपस्तत्राजगाम सपरिच्छदः ।। ७८८ ।। सविस्मयो स्मेरनेत्रो नेत्रकैरवकौमुदीम् । दवदंती दंतकांतिधौताधरदलोऽवदत् ।। ७८९ ।। सर्वत्र राजधर्मोऽयं मात्स्यन्यायनिषेधकः । यदुष्टनिग्रहः शिष्टपालनं च यशस्विनि ।। ७९०॥ राजा गृह्णन् करं पृथ्व्या रक्षेच्चौराद्युपद्रवम् । चौरादिनां हि पापेन लिप्येत स्वयमन्यथा ॥७९१ ॥ तत् पुत्रि न निगृह्णामि यद्य, रत्नतस्करम् । तत्परस्वापहाराय प्रयतेताभयो जनः ।। ७९२ ।। भैम्यूचे मयि पश्यंत्यां यदि मार्येत देहभृत् । श्राविकायाः कृपालुत्वं तदा मे तात कीदृशम् ।।७९३ ॥ १ एको बलवान्मत्स्योऽन्यान्निर्बलान्मत्स्यान् भक्षयतीति मात्स्यन्याय : । * समन्तात् । “ सुवर्णकलश । दवदंत्या सतीत्वप्रभावेण चौरबन्धनानां त्रोटनम् । || १५१॥
SR No.009658
Book TitleTrishashti Shakala Purush Charitam Part 5
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size95 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy