SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ अष्टमं पर्व तृतीयः त्रिषष्टिशलाकापुरुषचरिते ॥९१॥ सर्गः श्रीअरिष्ट नेमिजिन चरितम् । उज्झंती मौग्ध्यमधुरां क्रमेण क्षीरकंठताम् । कलाकलापग्रहणयोग्या कनकवत्यभूत् ।। २३ ।। शुभेऽह्नि कनकवती कलाग्रहणहेतवे । उचितस्य कलाचार्यस्यार्पयामास भूपतिः ।। २४ ।। अष्टादशापि हि लिपीर्लिपिस्रष्ट्रीव साबुधत् । शब्दपारायणं चक्रे कंठस्थं निजनामवत् ॥ २५ ॥ तर्काभ्यासादलमभूत् पत्रदाने गुरोरपि । छंदोऽलंकारशास्त्राब्धिपारश्वर्यजायत ।। २६ ।। षड्भाषानुगया वाचा काव्यकौशलमाप च । अचित्रीयत चित्रेषु पुस्तकर्मण्यगल्भत ।। २७ ।। क्रियाकारकगुप्तज्ञा वेदित्री च प्रेहेलिकाः । सकलद्यूतदक्षा च सारथ्यकुशलाप्यभूत् ।। २८ ।। संवाहकत्वकल्पाभूज्जज्ञे रसवती कलाम् । प्राप मायेन्द्रजालादिप्रादुर्भावननैपुणम् ।।२९ ।। आचार्यकमिव प्राप तूर्यत्रितयदर्शने । सा कापि हि कला नास्ति सम्यग यां न विवेद सा ॥३० ।। ॥षड्भिः कुलकम् ॥ सा प्रपेदेऽनवद्यांगी लावण्यजलनिम्नगा । कलाकलापसफलीकरणं मध्यमं वयः ॥३१॥ तदृष्ट्वा पितरौ तस्या वरान्वेषणतत्परौ । अपश्यन्तौ वरं योग्यमारेभाते स्वयंवरम् ॥ ३२ ॥ अपरेधुः स्वसदने सुखासीना मृगेक्षणा । अकस्मादागतं राजहंसमेकं ददर्श सा ॥३३ ॥ १ प्रशंसापत्रदाने । २ पुस्तं धातुकाष्ठादीनां वस्तूनां निर्माणं तत्कर्मणि । ३ समस्याः । ४ संवाहकोऽङ्गमर्दकस्तत्कर्मणि दक्षा । ५ रंधनक्रियाम् । ६ यौवनं । नलदमयंती चरिते तयोरुत्तरभवः। || ९१॥
SR No.009658
Book TitleTrishashti Shakala Purush Charitam Part 5
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size95 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy