SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते ॥१२॥ | सप्तमं पर्व प्रथमः सर्गः रामलक्ष्मणरावण चरितम् । कण्ठे चिक्षेप तं हारं बालः सहजचापलात् । जगाम विस्मयं तेन कैकसी सपरिच्छदा ।। १५४ ।। रत्नश्रवसे साऽऽचख्यौ राक्षसेन्द्रेण यः पुरा । मेघवाहनराजाय दत्तस्त्वत्पूर्वजन्मने ।। १५५ ।। अद्य यावद्देवतावद्योऽपूजि तव पूर्वजैः । न शक्यो वोढुमन्यैर्यो नवमाणिक्यनिर्मितः ।। १५६ ।। यश्च नागसहस्रेण निधानमिव रक्ष्यते । हार आकृष्य कण्ठेऽसौ सोऽक्षेपि शिशुना तव ।। १५७ ।। ॥त्रिभिर्विशेषकम् ॥ नवमाणिक्यसङ्क्रान्तमुखत्वात्तस्य तत्क्षणम् । नामधेयं दशमुख इति रत्नश्रवा व्यधात् ।। १५८ ॥ शशंस चैवं यन्मेरौ चैत्यवन्दनहेतवे । सुमालिना गतवता पृष्टस्तातेन कोऽप्यृषिः ।। १५९ ॥ चतुर्ज्ञानभृदित्याख्यद्धारं त्वत्पूर्वजन्मनाम् । यो वोढा नेवमाणिक्यं सोऽर्धचक्री भविष्यति ।। १६० ।। कैकसी सुषुवे चान्यं भानुस्वप्नेन सूचितम् । भानुकर्ण इति सूनुं कुम्भकर्णापराभिधम् ।। १६१ ।। चन्द्रतुल्यनखत्वेन नाम्ना चन्द्रणखां पुनः । ख्यातां शूर्पणखां लोके कैकसी सुषुवे सुताम् ।। १६२ ।। कियत्यपि गते काले पुनश्चाऽसूत कैकसी । पुत्रं बिभीषणं नाना शशाङ्कस्वप्नसूचितम् ।। १६३ ॥ साग्रषोडशधनुःसमुन्नतास्ते त्रयोऽप्यहरहः सहोदराः । रेमिरे गतभया यथासुखं क्रीडयाऽऽद्यवयसोऽनुरूपया ॥ १६४ ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये सप्तमे पर्वणि राक्षसवंश-वानरवंशोत्पत्ति-रावणजन्मवर्णको नाम प्रथमः सर्गः । नवमाणिक्यहारस्य महिमा वर्णन रावणस्य जन्म च । ॥ १२ ॥ १ तव पूर्वजाय । २ नव माणिक्यानि यस्मिस्तम् ।
SR No.009657
Book TitleTrishashti Shakala Purush Charitam Part 4
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy