SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ पृष्ठ क्र. ॥३१॥ सप्तमपर्वान्तर्गतानि सुभाषितानि । सुभाषितम् । प्रायो विचारचञ्चूना कोपः सुप्रशमः खलु । यथा राजा तथा प्रजा। वन्दनीयः सतां साधुर्युपकारी विशेषतः । निर्नाथानां कुतः शौर्य ? हतं सैन्यं ह्यनायकम् । मृत्यवे हि स्याद्वीरैर्वैरं चिरादपि । बलवानपि किं कुर्यात् प्राप्तः केशरिणा करी? जयाभिप्रायिणां प्रायः प्राणा हि तृणसन्निभाः । तालिका नैकहस्तिका । महतामपराद्धे हि प्रणिपातः प्रतिक्रिया । स्तोकं विहाय बह्विच्छुर्न हि लज्जास्पदं पुमान् । आश्रयस्य हि दौर्बल्यादाश्रितः परिभूयते । महतामागमो ह्याशु क्लेशच्छेदाय कस्य न ? दोष्मतां हि प्रियो युद्धातिथिः खलु । दोष्मन्तो हि निजैरेव दोभिर्विजयकाङिक्षणः । क्व हस्तिनामवस्थानं वने सिंहनिषेविते । ॥३१॥
SR No.009657
Book TitleTrishashti Shakala Purush Charitam Part 4
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy