SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते ॥३०॥ चतुर्थं पर्व प्रथमः सर्गः श्रेयांस जिन चरितम्। 1928282828282828282828282828 यमौकस्तोरणमिव मुखस्योपरि दंष्ट्रिकाम् । अन्तर्व्वलन्महाकोपानलस्येव शिखा: सटाः ॥३८१॥ नखांश्च प्राणिनां प्राणाकर्षणाङ्कटकानिव । लुलन्तं पुच्छदण्डं च बुभुक्षितमिवोरगम् ॥ ३८२ ॥ बिभ्रद् व्यात्ताननः पञ्चाननो बूत्कारदारुणः । साक्षादिव रसो रौद्रो निर्जगाम गुहागृहात् ॥३८३ ॥ ॥पञ्चभिः कुलकम् ॥ अतुच्छपच्छदण्डेन प्रचण्डेन स केसरी । भूतलं ताडयामास वजेणेन्द्र इवाचलम् ॥ ३८४ ॥ पुच्छाच्छोटननादेन तेन नेशुः समन्ततः । सत्त्वानि तूर्यनादेन यादांसीवान्तरम्बुधेः॥३८५ ॥ आर्य ! तिष्ठ मयि सति योद्धं तेऽवसरो न हि । इति त्रिपृष्ठस्तत्रैवाऽवातिष्ठिपदथाऽचलम् ॥ ३८६ ॥ पदातिना रथस्थस्य युध्यमानस्य मेऽमुना । क्षत्रधर्मोचितं नैतदिति विष्णुर्जहौ रथम् ॥ ३८७ ॥ अस्त्रिणो मे निरस्त्रेण युद्धमित्यपि नोचितम् । इत्यस्त्राण्यपि तत्याज वीरव्रतधनो हरिः ॥३८८॥ एह्येहि भो ! समित्कण्डूं हरे ! तव हराम्यहम् । इति त्रिपृष्ठोऽभाषिष्ट स्थामतोऽतिपुरन्दरः ॥ ३८९ ॥ तदेव वचनं सोऽपि कोपाटोपसमुत्कटः । अप्रितिरवव्याजाद् व्याजहारेव केसरी ॥ ३९० ॥ : स केसरि युवा चेत्थं चिन्तयामास चेतसि । अहो ! अमुष्य बालस्य भृशं रभसकारिता ॥३९१ ॥ विना सैन्यं यदायातः स्यन्दनाद् यदवातरत् । यच्च तत्याज शस्त्राणि यन्मामाह्वास्त चोच्चकैः ॥ ३९२ ॥ १ यमगृहतोरणम् । २ 'सटा:'-भाषायाम् 'सिंहकेशवाळी-याळ' इति । ३ 'अंकुटक' इति भाषायाम् 'अंकोडो' नामकम् आकर्षणसाधनम् । ४ पूर्वोक्तानि नेत्रादि-पुच्छान्तानि बिभ्रत्-धारयन् । ५ गर्जनाभयङ्करः । ६ यादांसि-हिंस्राणि जलचराणि । अन्तर्-मध्ये, अम्बुधेः समुद्रस्य । ७ युद्धरूपां कण्डूम्।८ अद्रिप्रतिध्वनिमिषेण । 28282828282828282828282828 त्रिपृष्ठवासु देव-अचलबलदेवादीनां चरितम्। ॥३०॥
SR No.009656
Book TitleTrishashti Shakala Purush Charitam Part 3
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy