SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ षष्ठं पर्व तृतीयः सर्गः आनन्द त्रिषष्टिशलाकापुरुषचरिते ४२॥ | वासुदेवपुरुषपुण्डरीकबलदेवबलि-प्रति विष्णुरुत्पाटयामास मगधान्तरवस्थिताम् । महाशिलां कोटिशिलां तां तुलाकोटिलीलया ।। ४२ ॥ पञ्चषष्टिसहस्राणि वर्षाणामायुरात्मनः । सोऽतिवाह्य ययौ षष्ठं नरकं स्वोग्रकर्मभिः ॥४३ ।। पुण्डरीकस्य कौमारे साधं वर्षशतद्वयम् । तदेव मण्डलित्वेऽपि दिग्जये षष्टिवत्सरी ।। ४४ ।। राज्ये संवत्सराणां च चतुःषष्टिसहस्यगात् । शतान्यपि च चत्वारि चत्वारिंशच्च वत्सराः ॥ ४५ ।। पञ्चाशीतिवर्षसहस्रायुरेकोऽनुजं विना । आनन्दोऽथ निरानन्दः कथंचित्कालमत्यगात् ।। ४६ ।। सोऽथ स्वस्य भ्रातुरुच्चैर्वियोगाद्वैराग्येणोपात्तदीक्षः सुमित्रात् । आत्मारामः केवलज्ञानमाप्य प्राप स्थानं शाश्वतं शर्मधाम ।। ४७ ॥ * * * ** इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये षष्ठे पर्वण्यानन्द-पुरुषपुण्डरीक-बलिचरितकीर्तनो नाम तृतीयः सर्गः । वासुदेव चरितम् । वासुदेवस्य नरक गमनं बलदेवस्य च सिद्धि गमनम् । ॥४२॥
SR No.009656
Book TitleTrishashti Shakala Purush Charitam Part 3
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy