SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ पञ्चमं पर्व तृतीयः त्रिषष्टिशलाकापुरुषचरिते 1७०॥ सर्गः श्रीशान्तिनाथजिनचरितम् । इह मर्त्यत्वमाप्तस्य देवत्वं च परत्र ते । प्रत्यक्षः परलोकोऽपि तद्धीमन्निहलोकवत् ॥२८॥ क्षेमकरकुमारणेत्थंकारं प्रतिबोधितः । चित्रचूलोऽप्युवाचैवं साधु साधु कृतं त्वया ॥२९॥ संसारे निपतन्नेष उद्धृतोऽस्मि कृपालुना । किमुच्यतेऽथवा यस्य साक्षात्तीर्थकरः पिता ॥३०॥ चिरं मिथ्यात्ववानस्मि दृष्टो दिष्ट्येय॑याप्यसि । सम्यक्त्वरत्न मे देहि न वन्ध्यं दर्शनं सताम् ॥३१॥ वज्रायुधोऽपि तद्भावं ज्ञात्वा मतिमतां वरः । दिदेश तस्मै सम्यक्त्वं सर्वीयस्य सुतः स हि ॥ ३२ ॥ भूयोऽप्यूचे चित्रचूलः कुमाराधप्रभृत्यहम् । आदेशकार्यस्मि तव याचस्वाधैव किञ्चन ॥३३ ॥ कुमारोऽपि जगादेवं त्वत्तोऽदो याचितं मया । अतः परं त्वया भाव्यं दृढसम्यक्त्वशालिना ॥ ३४ ॥ देवोऽप्यवोचत् केयं ते प्रार्थना स्वार्थ एष मे । तब्रूहि किंचित्कार्य त्वं यथा स्यामनृणस्तव ॥३५॥ मत्कार्यमिदमेवेति वको वज्रायुधाय सः । देवायेव निरीहाय दिव्यालङ्करणान्यदात् ॥३६॥ ईशानेन्द्रसभां गत्वा चित्रचूलोऽभ्यधादिति । स्थाने वज्रायुधोऽश्लाधि दृढसम्यक्त्ववांस्त्वया ॥३७॥ अयं महात्मा भगवानहन् भावीति संगृणन् । ईशानपतिरस्तावीद्वजायुधमनायुधः ॥३८॥ एवं विचित्रगोष्ठीभिः क्रीडाभिरपि चारुभिः । वज्रायुधः सौख्यमनस्तस्थौ सुर इवर्द्धिमान् ॥३९॥ वसन्तसमयेऽन्येधुस्तत्पुष्पपटलीधरा । वेश्या सुदर्शना नाम वज्रायुधमजिज्ञपत् ॥ ४० ॥ यूनां क्रीडासखो मीनकेतोर्जयसखः परः । स्वामिन्नध वसन्तोऽयमेकच्छत्रो विजृम्भते ॥४१॥ १ सर्व जानातीति सर्वीयस्तस्य । २ आदेशवर्ती । ३ कथयन् । ४ वसन्तपुष्पगुच्छधरा । देवपरीक्षा। PRASHRSHASHASABHARASTARE ॥७०॥
SR No.009656
Book TitleTrishashti Shakala Purush Charitam Part 3
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy