SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते IR४|| | पञ्चमं पर्व प्रथमः सर्गः श्रीशान्तिनाथजिनचरितम् । RISHRSHABHARASH इति द्वयं समालोच्य यातु तिष्ठतु वाद्य सः । गच्छ त्वमपि मद्वाचं समाख्याहि तदग्रतः ।। ३१९ ।। एवमुक्तस्तेन दूतो द्रुतं निर्गत्य तत्पुरात् । आख्यत्रैपृष्ठये तस्य वाचिकं वंचकात्मनः ॥ ३२० ॥ कोपानलानिलप्रायं श्रुत्वा तत्तस्य वाचिकम् । राजा श्रीविजयः सेना सज्जितामप्यसज्जयत् ।। ३२१ ।। ज्ञात्वा श्रीविजयानीकान्येनीकोत्कण्ठितान्यथ । आदिदेशाशनिघोषो युद्धातिथ्यकृते सुतान् ॥ ३२२ ।। अश्वघोषः शतघोषः सहस्रघोष एव च । महाघोषो भीमघोषो घनघोषस्तथापरे ।। ३२३ ॥ तत्पुत्रा मेघघोषाधाः सर्वे सर्वाभिसारतः । युद्धाय चमरचञ्चापुर्या द्वारि विनिर्ययुः ।। ३२४ ॥ ॥युग्मम् ॥ रणतूर्याण्यवाद्यन्त सैन्ययोरुभयोरपि । ध्वनिना शरदम्भोदसोदराणि गरीयसा ॥३२५ ॥ शरच्छिन्नोच्छलच्छत्रैः शतेन्दूभवदम्बरम् । कृन्तोत्पतच्छिरोभिश्च संमूर्छबहुराह्निव ।। ३२६ ॥ पतद्भिस्तेजितैः शल्यैः पतदुल्कमिवोच्चकैः । आस्फल्यत्पर्वतमिवास्फलद्भिर्गन्धसिन्धुरैः ॥ ३२७ ॥ भुवि विश्रान्तसंध्याभ्रमिव कीलालकर्दमैः । मद्यस्येवासृजः पानान्माद्यद्वालपेटकम् ।। ३२८ ।। महाभटै प्यमानमन्त्रास्त्रमिव हुंकृतैः । शल्याहतेभकुम्भोत्थमुक्तातारकिताम्बरम् ॥ ३२९ ॥ सैन्यरेणुभिरुद्भूतप्रदोषमिव सर्वतः । महत् प्रववृते युद्धमुभयोरपि सैन्ययोः ॥३३० ।। ॥पञ्चभिः कुलकम् ।। १ कोपामिवायुसदृशम् । २ युद्धोत्कण्ठितानि । ३ युद्धसत्काराय । ४ शतचन्द्रीभवत् अम्बरं यत्र तत् । ५ शोणितकर्दमैः । ६ पेटकः समूहः । ७ शस्त्रैराहता ये गजास्तेषां कुम्मेभ्य उत्थिताभिर्मुक्ताभिस्तारकितमाकाशं यत्र तत् । । अशनिघोषस्य पराजयः । ॥२४ ॥ RSS
SR No.009656
Book TitleTrishashti Shakala Purush Charitam Part 3
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy