SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते IR२॥ पञ्चमं पर्व प्रथमः सर्गः श्रीशान्तिनाथजिनचरितम् । तव भार्यां स्वसारं मे सुतारामपहृत्य सः । जीविष्यति कियन्नामाशनिघोषो नराधमः ।। २९४ ।। ॥युग्मम् ।। ततश्च शस्त्रावरणीं बन्धनी मोचनीमपि । विद्यां श्रीविजयायादादर्ककीर्तिसुतः स्वयम् ।।२९५ ।। रश्मिवेगामितवेगरविवेगार्ककीर्तयः । भानुवेगादित्ययशोभानुचित्ररथा अपि ।। २९६ ॥ अर्कप्रभोऽथार्करथो रवितेजाः प्रभाकरः । तथा किरणवेगोऽपि सहस्रकिरणोऽपि च ।। २९७ ।। इत्यादीनां स्वपुत्राणां शतपञ्चशतीमथ । समं त्रैपृष्ठिना वीरप्रष्ठेन पृतनावृतान् ।। २९८ ॥ पुर्यां चमरचञ्चायां तस्मादशनिघोषतः । सद्यः सुतारामाहतु प्राहिणोदहितान्तकः ।। २९९ ।। ॥चतुर्भिः कलापकम् ।। ततो विद्याधरबलच्छन्नाशेषनभस्तलः । दिवि केतुशतानीवोद्भावयन् सुभटायुधैः । ३०० ॥ प्रभूतहयहेषाभिर्हेषयन् भास्वतो हयान् । वितन्वानो गजैाग्नि मेघमालामिवापराम् ॥३०१ ।। विमानैर्दर्शयन् दीप्रैरानौत्पातिकानिव । जगाम चमरचञ्चा त्रिपृष्ठतनयः क्षणात् ॥३०२ ।। ॥त्रिभिर्विशेषकम् ॥ तं चाधिविद्यमशनिघोषं ज्ञात्वार्ककीर्तिसूः । सहस्ररश्मिना साधं सूनुनानूनशक्तिना ॥३०३ ।। परविद्याच्छेदकरी महाज्वालाभिधायिकाम् । विद्यां स्वयं साधयिन्तुं हिमवन्तं गिरिं ययौ ।। ३०४ ।। ।युग्मम् ॥ १ वीरेषु प्रष्ठेन श्रेष्ठेन । २ सेनासहितान् । ३ शत्रुनाशकः । SHRISHASSASSISTRATA अशनिघोषस्य पराजयः । ।। २२ ॥
SR No.009656
Book TitleTrishashti Shakala Purush Charitam Part 3
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy