SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते ॥१९७ ॥ चतुर्थं पर्व सप्तमः सर्गः श्रीसनत्कुमारचक्रिचरितम् । 282828282828282828282828286 ध्रियमाणस्थगिकोऽन्यैः कथ्यमानपथोऽपरैः । दय॑मानविनोदोऽन्यैस्स्तूयमानगुणोऽपरैः ॥३०५॥ कैरपि द्विरदारूढरश्वारूढैश्च कैश्चन । कैश्चिच्च स्यन्दनारूढः खे कैश्चित् पादचारिभिः ॥ ३०६॥ सकलत्रः समित्रश्चामित्रशैलमहाशनिः । सनत्कुमारः संप्राप नगरं हस्तिनापुरम् ॥३०७॥ ॥षड्भिः कुलकम् ॥ पितरौ तत्र दुःखातौं पौरांश्च निजदर्शनात् । स समानन्दयद् ग्रीष्मतापार्तानिव वारिदः॥३०८ ॥ सनत्कुमारं स्वे राज्येऽश्वसेननृपतिर्यधात् । महेन्द्रसिंहं तत्सेनाधिपत्ये प्रीतमानसः ॥३०९॥ श्रीधर्मतीर्थकृत्तीर्थे स्थविराणामथान्तिके । परिव्रज्यां समादाय राजा स्वार्थमसाधयत् ॥ ३१०॥ राज्यं सनत्कुमारस्य परिपालयतः सतः । महारत्नान्यजायन्त चक्रादीनि चतुर्दश ॥ ३११ ॥ ततः स साधयामास चक्रमार्गानुगः स्वयम् । षट्खण्डं भरतक्षेत्रं नैसर्पोद्यान् निधीनपि ॥३१२ ॥ दशभिर्वर्षसहस्त्रैः साधयित्वा स भारतम् । प्राविशद् रत्नभूतेन हस्तिना हस्तिनापुरम् ॥ ३१३ ॥ प्रविशन्तं महात्मानमवधिज्ञानतोऽथ तम् । वीक्षाञ्चक्रे सहस्राक्षः साक्षात् स्वमिव सौहृदात् ॥ ३१४ ॥ सौधर्मेन्द्रः पूर्वजन्मन्यसौ मे तेन बान्धवः । इति स्नेहवशाच्छक्र: कुबेरमिदमादिशत् ॥ ३१५ ॥ अयं शक्रचरश्चक्री कुरुवंशाब्धिचन्द्रमाः । राज्ञोऽश्वसेनस्य सुतो महात्मा बन्धुवन्मम ॥३१६ ॥ सनत्कुमारः षट्खण्डं साधयित्वाऽद्य भारतम् । स्वपुरं प्रविशत्येषोऽभिषेकोऽस्य विधीयताम् ॥३१७॥ १स्थगी ताम्बूलकरङ्कः। २ भूतपूर्वः शक्रः शक्रचरः । भूतपूर्वे प्चरट्' इति सूत्रसंसिद्धेः। 282828282828282828282828284 हस्तिनापुरे | प्रत्यागमनम्। ॥१९७॥
SR No.009656
Book TitleTrishashti Shakala Purush Charitam Part 3
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy