SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ चतुर्थं पर्व त्रिषष्टिशलाकापुरुषचरिते ॥१७१॥ सर्गः श्रीमघवचक्रवर्तिचरितम् । 28282828282828282828282828 मघवा चक्रवर्तीति कूटे ऋषभनामनि । आदाय काकिणीरत्नं लिलेख निजनाम सः ॥ ३८ ॥ ततो निवृत्तो मघवा गङ्गायाः पूर्वनिष्कुटम् । सेनान्या साधयामास गङ्गादेवीं स्वयं पुनः ॥ ३९ ॥ वैताढ्यपर्वतश्रेणिद्वयविद्याधरानपि । स तृतीयश्चक्रधरः साधयामास लीलया ॥४०॥ खण्डप्रपातया सेनान्युद्घाटितकपाटया । वैताढ्यान्निरगाच्चक्री पोतोऽर्णवजलादिव ॥ ४२ ॥ नवापि निधयस्तत्र गङ्गामुखनिवासिनः । बभूवुर्वशगास्तस्य नैसर्पप्रमुखाः सुखम् ॥ ४३ ॥ सेनान्या साधयामास गाउं पश्चिमनिष्कुटम् । इत्थं स च वशीचक्रे षट्खण्डमपि भारतम् ॥४४॥ संपूर्णचक्रिसामग्या भ्राजिष्णुर्मघवा ततः । श्रावस्तीनगरीमागान्मघवेवामरावतीम् ॥ ४५ ॥ तत्र देवैर्नृदेवैश्च मघोनोऽनूनसंपदः । चक्रवर्तित्वाभिषेकोऽविधीयत यथाविधि ॥ ४६॥ अभिषिक्तोऽपि चक्रित्वे सेवमानोऽपि सन्ततम् । द्वात्रिंशता मुकुटिनां सहस्रैर्मेदिनीभुजाम् ॥ ४७॥ श्रीयमाणः षोडशभिः सहस्रैर्दुसदामपि । निधिभिर्नवभिरपि परिपूर्णेप्सितोऽपि हि ॥ ४८ ॥ चतुःषष्ट्यासहस्रैश्च शुद्धान्तहरिणीदृशाम् । नयनेन्दीवरस्रग्भिरज़मानोऽप्यनारतम् ॥ ४९ ॥ अन्येष्वपि प्रमादस्य स्थानेषु सुलभेषु सः । पित्र्ये श्रावकधर्मे तु न जात्वासीत् प्रमद्वरः ॥ ५० ॥ नानाविधानि चैत्यानि विमानानीव नाकिनाम् । जिनबिम्बसनाथानि स्वर्णरत्नैर्व्यधत्त सः ॥५१॥ १ मुकुटधारिणां राज्ञाम् । २ आश्रीयमाणः । ३ पूर्यमाणे० । ४ अन्तःपुरस्त्रीणाम् । ५ नयनान्येव कमलानि तेषां मालाभिः । ६ सदा ।७ पितुरागते परम्परयेत्यर्थ । 2&RURURURUR:28A&RUR&AURR* दिग्विजयः। ॥ १७१॥
SR No.009656
Book TitleTrishashti Shakala Purush Charitam Part 3
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy