SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते ॥१५४॥ चतुर्थं पर्व पञ्चमः सर्गः श्रीधर्म| नाथजिनचरितम् । 28282828282828282828282828 पुष्पवृष्टिहरेर्मूनि मूर्धन्यस्य तरस्विनाम् । पपात गगनात् सद्यो जयश्रीहाससन्निभा ॥१८९ ॥ तयैव यात्रया विष्णुर्भरतार्धमसाधयत् । सहस्रधा हि फलति व्यवसायो महात्मनाम् ॥१९० ॥ दिग्यात्राया निवृत्तोऽथ मगधेष्वागतो हरिः । दोष्णोद्दधे कोटिशिलां मृत्पात्रमिव लीलया ॥१९१॥ मेदिनी छादयन्नश्चर्ययावश्वपुरं हरिः । विवेशितः पुरस्त्रीभिः कल्पितार्थः पदे पदे ॥ १९२ ॥ तत्र लालिनाऽन्यैश्च राजभिर्भक्तिराजिभिः । अर्धचक्रधरत्वाभिषेकोऽक्रियत शाङ्गिणः ॥१९३॥ इतश्च भगवान् धर्मश्छद्मस्थो वत्सरद्वयम् । विहृत्याभ्यागमद् दीक्षोपवनं वप्रकाञ्चनम् ॥१९४ ॥ दधिपर्णतले तत्र ध्यानान्तरजुषः प्रभोः । पुष्ये भे पौषराकायां षष्ठेनाजनि केवलम् ॥१९५ ॥ दिव्ये समवसरणे देशनां विदधे विभुः । अरिष्टादीन् गणभृतस्त्रिचत्वारिंशतं तथा ॥ १९६ ॥ तत्तीर्थभूः किंनराख्यस्त्र्यास्यः कूर्मरथोऽरुणः । दक्षिणैस्तु मातुलिङ्गिगदाभृदभयप्रदैः ॥ १९७ ॥ वामैस्तु-नकुलपद्माक्षमालामालिभिर्भुजैः । भ्राजिष्णुर्धर्मनाथस्य जज्ञे शासनदेवता ॥१९८ ॥ तथोत्पन्ना च कन्दर्पा गौराङ्गी मत्स्यवाहना । उत्पलाङ्कशधारिभ्यां दक्षिणाभ्यां विराजिता ॥१९९ ॥ दो तदितराभ्यां च पद्मिनाऽभयदेन च । प्रभोः शासनदेव्यासीत् सदा सन्निधिवर्तिनी ॥२०॥ सेव्यमानः सदा ताभ्यां विहरन्नवनीमिमाम् । अपरेधुरुपागच्छत् पुरमश्वपुरं प्रभुः ॥ २०१॥ सद्यः समवसरणं चक्रे शक्रादिभिः सुरैः । चत्वारिंशत्पञ्चधन्वशतोच्चाशोकपादपम् ॥ २०२॥ १ बलवताम् । २ मृत्तिकापात्रम् । ३ त्रिमुखः । 2828R8282828282828282828286 श्रीधर्मनाथजिनस्य कैवल्यं समवसरणं च। ॥१५४॥
SR No.009656
Book TitleTrishashti Shakala Purush Charitam Part 3
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy